________________ 357 प्रकरणम् सिद्धहैमबृहत्प्रक्रिया. 1774 ऋत्वादिभ्योऽण् // 6 / 4 / 120 / / ऋतु इत्येवमादिभ्यः सोऽस्य प्राप्त इत्यर्थे अण प्रत्ययः स्यात् / ऋतुः प्राप्तोऽस्य आर्तवं पुष्पफलम् / उपवस्ता प्राप्तोऽस्य औपवस्त्रम् / प्राशिता प्राप्तोऽस्य प्राशित्रम् / ऋत्वादयः प्रयोगगम्याः। 1775 कालाद्यः // 6 / 4 / 126 // कालशब्दात् सोऽस्य प्राप्त इत्यर्थे यः प्रत्ययः स्यात् / कालः प्राप्तोऽस्य काल्यस्तापसः। काल्या मेघाः / 1776 दीर्घः // 6 / 4 / 127 // कालशद्वात् प्रथमान्तादस्येति षष्ठयर्थे इकण् प्रत्ययः स्यात् योऽसौ प्रथमान्तः स चेद्दी] भवति। दीर्घः कालोऽस्य कालिकमृणम् / कालिकं वैरम् / कालिकी संपत् / योगविभागादिकण / यविधाने हि कालाद्यो दीर्घश्चेत्येकमेव सूत्रं क्रियेत। 1777 आकालिकामकश्चाद्यन्ते॥६।४।१२८॥ आकालिकमिति शद्धरूपमिकान्तमिकणन्तं च निपात्यते। आकालशद्वादिक इकण च भवत्यर्थे भवतीत्यर्थः। आद्यन्ते-आदिरेव यद्यन्तो गम्यते / कथं चादिरेवान्तो भवति / यस्मिन् काले यत् प्रवृत्तमनध्यायादि तस्मिन्नेव काले प्रत्यावृत्ते यदि तदुपरमेत / यदि वा यस्मिन्नेव काले क्षणादौ विद्युदादेर्जन्म यदि तस्मिन्नेव काले विनश्येनात्मलाभकालादूचं तिष्ठेदित्यर्थः / आकालं भवति आकालिकोऽनध्यायः / पूर्वेधैर्यस्मिन् काले तृतीये चतुर्थे वा यामे प्रवृत्तः पुनरपरेधुरपि आतस्मात् कालाद् भवन् आकालिकोऽनध्याय उच्यते / आकालिका आकालिकी वा दृष्टिः / स्त्रियामिकेकणोविशेषः / अकालिका आकालिकी वा विद्युत् / आ जन्मकालमेव भवन्ती जन्मानन्तरविनाशिनी ऊर्ध्वमननुवर्तमाना एवमुच्यते / एवं च द्वधाप्यादिरेवान्तो भवति / आयन्त इति किम् / सर्वकालभाविनि मा भूत् / निपातनमादावन्ते चेति द्वन्द्वनिवृत्त्यर्थम् / अथवा निपातनस्येष्टविषयत्वाद् समानकालशद्धस्याकालादेशः। आद्यन्त इति च द्वन्दः प्रकृतिविशेषणम् / आद्यन्तयोर्वर्तमानाद् समानकालशब्दाद् प्रथमान्तादस्येति षष्ठयर्थे इकेकणौ निपात्येते समानकालशदस्याकालादेशः। समानकालावाद्यन्ता-वस्याकालिकोऽनध्यायः। आकालिका आकालिकी वा विद्युत् / समानकालताद्यन्तयोः पूर्ववद्वेदितव्या। 1778 त्रिंशदिशतेर्डकोऽसंज्ञायामाईदर्थे // 6 / 4 / 129 // त्रिंशविंशति इत्येताभ्यामा अहंदर्थाद्योऽर्थो वक्ष्यते तस्मिन् डकः प्रत्ययः स्यात् काफ्कादः