________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 355 प्रत्ययः स्याद्वयसि गम्यमाने / द्वौ मासौ भूतो द्विमास्यः दारकः। त्रिमास्यो दारकः। वयसीति किम् / द्वैमासिको व्याधिः। त्रैमासिको व्याधिः। द्वैमासिको नायकः। भूत इत्येव / द्वौ मासौ भावी द्वैमासिको युवा। 1763 ईनञ् च // 6 / 4 / 114 // द्विगोरिति निवृत्तं योगविभागात् / मासशब्दाद् भूतेऽर्थे ईनञ् चकाराद्यश्च प्रत्ययः स्याद्वयसि गम्यमाने / मासं मासीनः मास्यो दारकः / अकारो वृद्धिहेतुत्वेन पुंवद्भावाभावार्थः / मासीना स्वसाऽस्य मासीनास्वसृकः / वयसीत्येव / मासिको नायकः। 1764 षण्मासाद्ययणिकण // 6 / 4 / 116 // षण्मासशब्दात् कालवाचिनो भूतेऽर्थे य यण इकण इत्येते प्रत्ययाः स्युः वयसि गम्यमाने। षण्मासान् भूतः षण्मास्यः। पाण्मास्यः / पाण्मासिकः। भूत इत्येव / षण्मासान् भावी / वयसीत्येव। पाण्मास्यः / षण्मासिको नायकः। . 1765 सोऽस्य ब्रह्मचर्यतद्वतोः // 6 / 4 / 116 // स इति प्रथमान्तात कालवाचिनः षष्ठयर्थे इकण प्रत्ययः स्यात् ब्रह्मचर्ये तद्वति चाभिधेये / यत्तदस्येति निर्दिष्टं तच्चेद् ब्रह्मचर्य ब्रह्मचारी वा भवतीत्यर्थः / मासोऽस्य ब्रह्मचर्यस्य मासिकं ब्रह्मचर्यम् / आर्धमासिकम् / सांवत्सरिकम् / मासोऽस्य ब्रह्मचारिणो मासिको ब्रह्मचारी। मासं ब्रह्मचर्यमस्येत्यर्थः। एवमार्धमासिकः। सांवत्सरिकः / 1766 प्रयोजनम् // 6 // 4 / 117 // सोऽस्येति वर्तते / स इति प्रथमान्तादस्येति षष्ठयर्थे इकण प्रत्यय: स्यात् यत्तत्प्रथमान्तं तचेत् प्रयोजनं स्यात् / प्रयोजनं प्रयोजकं प्रवर्तनं जनकमुत्पादकम् / जिनमहः प्रयोजनमस्य जैनमहिकम् / ऐन्द्रमहिकम् / आभिषेचनिकम् / दैपोत्सविकम् / 1767 एकागाराचौरे // 6 / 4 / 118 // एकागारशब्दात तदस्य प्रयोजनमित्यस्मिन् विषये इकण प्रत्ययः स्यात् चौरे-यत्तदस्येति निर्दिष्टं स चेत चौरो भवति / एकमसहायमगारं प्रयोजनमस्य ऐकागारिकश्चौरः। ऐकागारिकी। चौरे नियमार्थं वचनम् / तेनान्यत्र न भवति / एकागार प्रयोजनमस्य भिक्षोरिति वाक्यमेव / 1768 चूडादिभ्योऽण् / / 6 / 4 / 119 // चूडादिभ्यस्तदस्य प्रयोजनमित्य