SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ अर्थालङ्कारनिर्णयः सखिसाध्वीति प्रत्युक्तिः / तर्हि आनयनमनुनीयेत्युक्तिः / कथं वा विप्रियाणि जनयन्ननुनेय इति प्रत्युक्तिः / तर्हि किं गतेन न हि युक्तमुपैतुमित्युक्तिः / कः प्रिये सुभगमानिनि मान इति प्रत्युक्तिरिति / वाक्यैकदेशद्वयेन चोक्तिप्रत्युक्तिमत् प्रकारद्वयम् / तथा हि प्रथमेऽढ़े उक्तिः / अपरे च प्रत्युक्तिः / द्वितीये च श्लोके पूर्वेऽर्दै उक्तिरिति / व्याख्या च प्रथमप्रकारद्वयानुसारेण विधातव्या / वाक्यार्थद्वयम् इति / हे पर्वतराज, मया वियुक्ता रामाऽत्र त्वया दृष्टेति प्रश्नरूप एको वाक्यार्थः / हे राजराज, त्वया विरहिता रामाऽत्र मया दृष्टेत्युत्तररूपो द्वितीयो वाक्यार्थः / अत्र इति सहोक्त्यलङ्कारे / बहूनाम् इति मध्यमे उदाहरणे / द्वयोः इति प्रैथमतृतीययोः। प्रधानार्थपरत्वेन इति विप्रलम्भशृङ्गारपरतयेत्यर्थः / शब्दार्थद्वयइति / शब्दश्चार्थद्वयं चेति विग्रहः / वचःश्लिष्टे हि शब्दात् शब्दान्तरस्यानन्तरमर्थद्वयस्य 10 प्रतिपत्तिर्भवतीति / शाब्द इति / तस्मादेव शब्दात्तादृशाद्वा / गतः न्यायः इति / युगपदर्थद्वयप्रकाशनलक्षणः / आवृत्तिरत्र इति / श्लेषे त्वनावृत्तिरित्यस्याभिप्रायः / एषा समासोक्तिः इति / संक्षेपेणैकेनैव वाक्येनार्थान्तरस्याऽपि प्रतिपादनात् / अर्थान्वयाद् इति अन्वि तार्थत्वात् / ___अन्यत्वमेतयोः इति / अन्यत्वमेतदुक्ताद्यत्रैकेनैव वा वाक्येनेत्येवंरूपाल्लक्षणादित्यर्थः। 15 एतयोः समासोक्तिसहोक्त्योः / समासोक्तिर्हि संक्षेपेगाभिधानम् , उपमेयोक्त्यैवोपमानप्रतिपादनमुपमानोक्त्यैव चोपमेयप्रतिपादनमिति / सहोक्तिश्च गुणकर्मणां सहभावस्य कथनं, सहादिना पदेनेत्यर्थः / या तु इति / यत्रकेनैव वाक्येनेत्यादिलक्षणलक्षिता या सहोक्ति सैतस्य ग्रन्थकारस्यालङ्कारतया संमता / या पुनर्भामहादिभिरुक्ता सा नालङ्कार इत्यर्थः। तुल्यकाल इति ह्युपलक्षणमन्यालङ्कारकारोक्तलक्षगानामिति / कस्यचिद् इति अर्थान्नि- 20 कृष्टस्य / अन्यपरित्यागेन च इति / अर्थान्तरन्यासवतीत्यत्रार्थान्तरशब्देन समस्य निकृष्टस्य चार्थस्य प्रतिपादयिष्यमाणत्वात् अन्यशब्देनार्थात् सम उत्कृष्टो वार्थः प्रतिपाद्यते / अञ्जसत्वाद् इति / विशिष्टस्य न्यासः पूर्वमेवाभिहितः, निकृष्टस्य चाग्रे प्रतिपादयिष्यते, पारिशेष्यात् समस्यैवाञ्जसत्वमित्यर्थः / अतश्चाञ्जसत्वमपोह्यमानो योऽर्थः सामान्येन प्रतीयते / नोत्कृष्टो नापकृष्टस्तस्मादन्यत् सममेव भवतीति / 25 एकस्य इति अन्यशब्दपर्यायोऽयम् / पूर्वम् इति विशिष्टस्य / यदेति लक्षणश्लोकस्य पूर्वार्दै / तद्रपतया च इति / धर्मनिबन्धनरूपतया च / तस्य इति अक्षसूत्रस्य / अर्थस्वभावम् 1 कथमिव // 2. उदाहरणके ख. पुस्तके एव // 3. अर्थलेषे ख. पुस्तके एव // 4. शब्द-लेषे ख. पुस्तके एव // 5. उत्कृष्टनिकृष्टविशेषणरहितत्वेनेत्यर्थः / ख. पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy