SearchBrowseAboutContactDonate
Page Preview
Page 467
Loading...
Download File
Download File
Page Text
________________ 278 कल्पलताविवेके इति / अर्थ्यत इत्यर्थ उत्कृष्टो लभ्यते / अर्थाभावस्वरूपम् इति / अत्राऽप्यर्थशब्देनार्थनीयत्वविशिष्टोऽर्थो गृह्यते, तदभावरूपं समस्वभावमेव भवति, अर्थनीयत्वाभावादित्यर्थः / वस्तुनोः इति / अत्र द्विवचनमविवक्षितम् / तेन यत्रैकं दत्वा द्वे बहूनि च वस्तून्यादी. यन्ते, द्वे च दत्त्वा एकं द्वे बहूनि वा, बहूनि च दत्त्वैकं द्वे बहूनि वा, सा सर्वैव परिवृत्तिः / 5 कथमसत उपचार इत्याह-प्रसिद्धितः इति। प्रसिद्ध्या हि न किञ्चिद्विरुध्यते। अन्यथा कासादीनामपि मूर्त्तधर्मवर्णनमयुक्तं स्यात् / इति इति उक्तेन प्रकारेण / यां चन्द्रकैः इति / अत्र मदजलस्य त्यागः पयोजपत्राणां च ग्रहणम् / पर्यायान्तरस्य इति पर्यायालङ्कारप्रकारस्य / उत्तरत्र इति / उत्तरस्मिन्नड़े मनोगमनरणरणकोद्भवयोर्मनोपहरणरणरणकदानरूपत्वेनोप चरितत्वात् / केचित्तु इति / पूर्वं हि पुष्पोद्गमार्थ पादाहतिरिति पादार्पणमुक्तम् / 10 कुमुद इति / अत्र कुमुदवने रजन्यां श्रीमत्त्वं यदासीत् तत् प्रातरम्भोजखण्डे सङ्का न्तमिति व्यत्ययः / अम्भोजखण्डे तु यदपश्रीकत्वं तत्कुमुदवने इति च व्यत्ययः / एवमुत्तरत्र / सोच्चिय इति / ताम्बूलादि जनितरागकोपनिवृत्तरागयोरभेदोपचारः / स्वगिणः इति यश:शेषतां गतस्येत्यर्थः / अमुख्यवृत्त्या इति / परप्रयोजने कृतशरीरव्ययहेतुकं यशः प्रसृतम् , अथ च शरीरं दत्त्वा यशोऽन्यस्मात् क्रीतमित्युक्तम् / स एष इति / राजभागलक्षणस्य द्रव्यस्य 15 राजभ्यो राजराजे, हस्तलक्षणस्य च राजराजाद्राजपृष्ठे यत् सङ्क्रमणं स एष उभयोऽपि द्रव्यस्थानपरिवर्तः द्रव्यगुणादीनां स्थानपरिवर्तरूपो व्यत्ययो भवतीत्यर्थः।। यश्च इति / चित्राक्षेपलक्षणेऽर्थे विनिमयोपदर्शनमिदम् / दानप्रतिदान-इति राजभागग्रहणप्रदानलक्षगः / परोक्षोपलक्षणपरत्वे इति / एतत् प्रत्यक्षा इवेत्यस्य झगिति हृदयेति यद् द्वितीयं व्याख्यानं तत्रापि सम्बन्धनीयम् / पुरः स्फुरद्रपत्व- इति / पुरः स्फुर20 द्रूपत्वस्य हेतुभूतं वर्णनमित्यर्थः / इदमुत्तरम् इति / भ्रकुटयादिभिर्मानं विधेहीति पूर्ववाक्यस्य सखीसम्बन्धिन उन्नयनात् / अन्ये इति / मुसलमप्रस्तुतमेव येऽभिमन्यन्ते / अपरे इति / मुसलं ये प्रस्तुतमेव सम्भावयन्ति / व्यक्तमेव इति उ इत्यनेन / उद्भिन्न इति किन्त्वित्यादिना / कचिद् इति / अञ्जनादिछमनोद्भिन्नविच्छायत्वादिविरहकार्यनिगृहनलक्षणे / प्रणयि सखीति / अत्र शस्त्रोपक्षेपोऽकाण्डयमदण्डपात इव भुजपाते हेतुरित्युपमानोपमेयाभ्यां 25 तस्यानेकपदार्थतेति / हेत्वलङ्कारः इति रुद्रटोक्तः। कस्तु इति / कारको ज्ञापको वा / अलङ्कारान्तरत्वम् इन्ते / उक्तवक्ष्यमाणालङ्कारव्यतिरिक्तरूपत्वम् / मूच्छेनेन इति / विशेषगद्वारको हेतुरयमुपदर्शितः। अलङ्कारान्तर इति उत्प्रेक्षायाः / अन्ये तु इति इदमुदाहरन्तीत्यनुषज्यते / अलङ्कारान्तरम् इति /
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy