SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ 180 कल्पलताविवेके भिन्नत्वाद्वर्णपदपदैकदेशवाक्यसङ्घटना प्रबन्धप्रकाशत्वेनालस्यक्रमव्यङ्ग्यस्य षट्प्रकारत्वाचेति / "प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते / यत्र व्यङ्ग्यान्वये वाच्यचारुत्वं स्यात् प्रकर्षवत् // " 5 व्यङ्ग्येनान्वयो वाच्यस्योपस्कार इत्यर्थः / व्यङ्ग्यं च वस्तु रसालङ्कारभेदात् त्रिधा / तत्र वस्तुमात्रस्य व्यङ्ग्यस्य तिरस्कृतवाच्येभ्यः शब्देभ्यः प्रतीयमानस्य कदाचिद्वाच्यरूपवाक्यार्थाऽपेक्षया गुणीभावे सती गुणीभूतव्यङ्ग्यता। यथा-लावण्यसिन्धुरिति / काञ्चित् स्त्रियं प्रत्यभिलाषविस्मयगर्भेयं कस्यचित्तरुणस्योक्तिः / अत्र सिन्धुशब्देन परिपूर्णता / उत्पलपदेन कटाक्षच्छटाः / शशिशब्देन वदनम् / द्विरदकुम्भतटीशब्देन कुचयुगलकम् / 10 कदलिकाण्डशब्देन ऊरुद्वन्द्वम् / मृणालदण्डशब्देन दोर्युगलमिति ध्वन्यते / तत्र चैषां स्वार्थस्य सर्वथाऽनुपपत्तेरन्धशब्दोक्तेन न्यायेन तिरस्कृतवाच्यत्वम् / स च प्रतीयमानोऽप्यर्थविशेषोऽपरैव हि केयमित्युक्तिगर्भीकृते वाच्येऽशे चारुत्वं छायां विधत्ते / वाच्यस्यैव स्वात्मोन्मजनया निमज्जितव्यङ्ग्यजातस्य सुन्दरत्वेनावभासात् / सुन्दरत्वं चास्यासम्भाव्यमानसमागमसकललोकसारभूतकुवलयादिभाववर्गस्याऽतिसुभगैकाधिकरण15 विश्रान्तिलब्धसमुच्चयरूपतया विस्मयविभावताप्राप्तिपुरःसरीकारेण व्यङ्ग्यार्थोपस्कृतस्य तथा विचित्रस्यैव वाच्यरूपतोन्मजनेनाभिलाषादिविभावत्वात् / अत एवेयति यद्यपि वाच्यस्य प्राधान्यं तथाऽपि रसध्वनौ तस्याऽपि गुणतेति सर्वत्रगुणीभूतव्यङ्ग्यप्रकारे मन्तव्यम् / तत एव ध्वनेरेवात्मत्वमित्युक्तचरं बहुशः / अन्ये तु जलक्रीडावतीर्णतरुणीजनलावण्यद्रवसुन्दरीकृतनदीविषयेयमुक्तिरिति 20 महृदयाः / तत्राऽपि चोक्तप्रकारेणैव योजना / यदि वा नदीसन्निधौ स्नानावतीर्णयुवतिविषया सर्वथा तावद्विस्मयमुखेनेयति व्यापाराद्गुणता / व्यङ्ग्यस्य अतिरस्कृतवाच्येभ्योऽपि शब्देभ्यः प्रतीयमानस्य व्यङ्ग्यस्य कदाचिद्वाच्यप्राधान्येन काव्यचारुत्वाऽपेक्षया गुणीभावे सति गुणीभूतव्यङ्ग्यता यथा-अनुरागवती सन्ध्येति / अत्राऽनुरागशब्दस्याऽभिलाषे 1 व्यङ्ग्योऽर्थो ललनालावण्यप्रख्यो यः प्राधान्ये सति ध्वनिरित्युक्तस्तस्मादन्य इत्यर्थः // 2 सिन्धुरभिलाष-ग. // 3 परिपूर्णतागुणयोगिनी नायिकेत्यर्थः // 4 अत्र सिन्धुप्रभृतयः शब्दाः परिपूर्णत्वहृद्यत्वसौन्दर्यातिशयसादृश्यं निमित्तीकृत्य नायिकातदवयवलक्षणेष्वर्थेष्वध्यवसिताः सेव्यत्वसच्छायत्वाऽऽप्यायकत्वविमर्दसहत्वसुकुमारस्वशीतलत्वादिधर्माननेकान् ध्वनन्तीति या निशेति श्लोकदर्शितो न्यायोऽनुसतव्यः // 5 शब्द // 6 क्रोडीकृते विशेषिते इति यावत् // 7. नदीरूपे // 8. दर्शितव्यङ्ग्यार्थोपस्कृतवाक्यार्थमात्रे // 9. अर्थान्तरसङ्क्रमितवाच्येभ्यः // 10. अनुरागवतीसन्ध्या दिवसस्तत्पुरःसरः / अहो दैवगतिश्चित्रा तथाऽपि न समागमः // ख पुस्तके एव //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy