SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् तदुपरक्तत्वलक्षणया लावण्यशब्दवत् प्रवृत्तिरित्यभिप्रायेणातिरस्कृतवाच्यत्वमुक्तम् / रसादिरूपव्ययस्य गुणीभावे रसवदाद्यलङ्कारविषयः प्राक् प्रदर्शितः / तत्र च रसानामाधिकारिकवाक्यार्थाऽपेक्षया गुणीभावो विवहनप्रवृत्तभृत्यानुयायिराजवत् व्यङ्यस्य चोपमादेरलङ्कारस्य गुणीभावे दीपकादिविषयः। एवं प्रकारत्रयस्यापि गुणीभावं प्रदर्य बहुतरलक्ष्यव्यापकताऽस्येति दर्शयितुमाह "प्रसन्नगम्भीरपदाः काव्यबन्धाः सुखावहाः / ये च तेषु प्रकारोऽयमेव योज्यः सुमेधसा // " गम्भीराणि व्यङ्ग्यार्थाऽऽक्षेपकत्वात् / सुखावहा इति / चारुत्वहेतुस्तत्राऽयमेव प्रकार इति भावः / यथा लच्छी धूए ति / लक्ष्मीः सकलजनाभिलाषभूमिर्दुहिता जामाता हरिर्यः समस्तभोगापवर्गदानसततोद्यमी। तथा गृहिणी गङ्गा यस्याः समभिलपणीये 10 सर्वस्मिन् वस्तुन्यनुपहत उपायभावः / अमृतमृगाकौ च सुतौ / अमृतमिह वारुगी। तेन गङ्गास्नानहरिचरणाराधनाद्युपायशतलब्धाया लक्ष्म्याश्चन्द्रोदयपानगोष्ठयुपभोगलक्षणं मुख्यं फलमिति त्रैलोक्यसारभूतता प्रतीयमाना सती अहो कुटुम्चं महोदधेरित्यहो शब्दार्थे गुणीभावमभ्येति / एवं निरलङ्कारमुत्तानतायां तुच्छतयेव भासमानममुनाऽन्तःसारेण काव्यं पवित्रीकृतमित्युक्त्वाऽलङ्कारस्याऽप्यनेनैव रम्यतरत्वमिति दर्शयति / ... 15 "वाच्यालङ्कारवर्गोऽयं व्यङ्ग्यांशाऽनुगमे सति / प्रायेणैव परां छायां बिभ्रल्लक्ष्ये निरीक्ष्यते // " व्यङ्ग्योऽशोऽलङ्कारो वस्तुमात्रं वा / तथाहि दीपकसमासोक्त्यादिवदन्येऽप्यलङ्काराः प्रायेण व्यङ्ग्यालङ्कारान्तरवस्त्वन्तरसंस्पर्शिनो दृश्यन्ते / तत्र प्रथमं तावदतिशयोक्तिगर्भता सर्वालङ्कारेषु शक्यक्रिया / यतोऽतिशयोक्तिर्यमलंकारमधितिष्ठति कविप्रति 20 भावशात्तस्य चारुत्वाऽतिशययोगोऽन्यस्य त्वलङ्कारमात्रतैवेति / तस्याश्चालङ्कारान्तरसङ्कीर्णत्वं कदाचिद्वाच्यत्वेन कदाचिद्व्यङ्ग्यत्वेन / व्यङ्ग्यत्वमपि कदाचित् प्राधान्येन कदाचिद्गणभावेन / तत्राये पक्षे वाच्यालङ्कारमार्गो द्वितीये तु ध्वनावन्तर्भावः / तृतीये तु गुगीभूतव्यङ्ग्यरूपता / अयं च प्रकारोऽन्येषामप्यलङ्काराणामस्ति / तेषां तु न सर्वो विषयोऽतिशयोक्तेस्तु सर्वालङ्कारविषयोऽपि सम्भवतीत्ययं विशेषः / येषु चाऽलङ्कारेषु 25 1. लौहित्यस्याविदूरवर्तित्वेनाभिलाषप्रतीते.हित्यानुगतत्वलक्षणयाऽध्यारोपलक्षणयेत्यर्थः // 2. सन्ध्यादिशब्दास्तु विवक्षितान्यपरवाच्याः / अत्र चाभिलाषादिप्रतीतस्य नायकवृत्तान्तस्य याच्यापेक्षया गुणभावः // 3 [लच्छीधूआ]जायादुओ हरी तह घरल्लिया गंगा / अमियमियं काइसुया अहो कुटुंबं महो अहिणो // ख पुस्तके एव // 4. योऽतिशयोक्ती निरूपितोऽलङ्कारान्तरेऽप्यनुप्रवेशात्मकः //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy