SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ शब्दालङ्कारदर्शनम् 179 न्तरितयोः इति / विरोधमविरोधं च इति / अवधानाऽतिशयः इति / विनेयानुन्मुखीकर्तुम् इति / एतत् सर्वं पूर्वमेव तत्र तत्र व्याख्यातमस्तीति तत एवावसेयम् / उपसंहारपुरःसरमस्योक्तस्य फलमाह “विज्ञायेत्थं रसादीनामविरोधविरोधयोः / विषयं सुकविः काव्यं कुर्वन् मुह्यति न कचित् // " एवं रसादिषु विरोधाविरोधनिरूपणस्योपयोगित्वं प्रतिपाद्य रसादिविषयस्य व्यञ्जकवाच्यवाचकनिरूपणस्याऽपि तत् प्रतिपाद्यते ____ "वाच्यानां वाचकानां च यदौचित्येन योजनम् / रसादिविषयेणैतत् कर्म मुख्यं महाकवेः // " वाच्यानामितिवृत्तविशेषाणाम् / वाचकानां सुप्तिङ्गादीनाम् / एतच्च रसादितात्पर्येण 10 काव्यनिबन्धनं भरतादावपि सुप्रसिद्धमेवेति प्रतिपादयितुमाह "रसाद्यनुगुणत्वेन व्यवहारोऽर्थशब्दयोः / / औचित्यवान्यस्ता एता वृत्तयो द्विविधाः स्थिताः // " व्यवहारो हि वृत्तिरुच्यते / तत्र रसाऽनुगुणः औचित्यवान् वाच्याश्रयो व्यवहारो यस्ता एताः कैशिक्याद्या वृत्तयः, वाचकाश्रयाश्चोपनागरिकाद्या वृत्तयो हि रसादितात्पर्येण 15 तयोर्जीवभूता इतिवृत्तादि तु शरीरभूतमेव / उपसंहरति ध्वनिस कः प्रकारः काव्यस्य व्यञ्जितः सोऽयम् // " विमतयोऽभाववादभाक्तत्ववादादिरूपाः / ध्वनिसंज्ञकः प्रकार इति / एकपञ्चा- 20 तत्राद्यश्चतुर्भेदोऽत्यन्ततिरस्कृतवाच्यस्य अर्थान्तरसङ्क्रमितवाच्यस्य च पदवाक्यप्रकाशत्वेन प्रत्येकं द्विप्रभेदत्वात् / द्वितीयस्तु सप्तचत्वारिंशत्प्रकारः / व्यङ्ग्ययोरलङ्कारवस्तुनोः पदवाक्यप्रकाशतायां प्रत्येकं द्विप्रभेदत्वे शब्दशक्त्युद्भवस्य चतुर्भेदत्वेन व्यञ्जकस्याऽर्थस्यालङ्कारस्य च कविप्रौढोक्तिकृतशरीरत्वेन कविनिबद्धवक्तप्रौढोक्तिकृतशरीरत्वेन स्वतः सम्भ- 25 वित्वेन च प्रत्येकं त्रैविध्ये व्यङ्ग्यस्याऽपि प्रत्येकमेव च वस्त्वलङ्कारभेदेन द्वैविध्यात् द्वादशधा विभक्तस्य पदवाक्यप्रबन्धप्रकाशतायामर्थशक्त्युद्भवस्य षट्त्रिंशत्प्रकारत्वेन उभयशक्त्युद्भवस्य वाक्यप्रकाशतायामेकविधत्वेन च लक्ष्यक्रमव्यङ्ग्यस्यैकचत्वारिंशद्भेद 1. नाटयकाव्ययो // 2. वाच्यवाचकौ // 3. परमार्थः // .
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy