SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 74 कल्पलताविवेके . अयमभिप्रायः / अत्रावान्तरवाक्येषु पदसमुदायः परस्परसंसृष्ट इत्यस्ति काव्यलक्षणयोगः / काव्यत्वे च सति यद्वाक्यसमुदायानर्थक्यं सोऽपार्थो दोषः / दाडिमानि दशापूपाः षड् इत्यादि / इत्यत्रापि अतद्गुणसंविज्ञानो बहुव्रीहियाख्येयः / तस्य प्रधानस्यान्यपदार्थस्य गुणानां च वर्तिपदार्थानां सम्यग् विज्ञानं कार्यान्वयपर्यन्तं यत्र स 5 तद्गुणसंविज्ञानो बहुव्रीहिः / यथा सर्वादीनि इत्यत्र / अत्र विश्वशब्दादिवत् सर्वशब्दस्यापि सर्वनामसंज्ञयाऽभिसम्बन्धः, समुदायस्य समासार्थत्वात् / अतद् गुणसंविज्ञानः पुनर्बहुव्रीहिर्यत्र प्रधानस्यैव कार्यान्वयः वर्त्तिपदार्थस्य तु तदुपलक्षणपरता। यथा चित्रगुमानयेति / न ह्यत्र देवदत्तवच्चित्रगवीनामप्यानयनम् / यथा च चित्रगुमानयेत्यत्र वर्तिपदार्थस्यान्यपदार्थोपलक्षणपरत्वम् / एवमिहापि दाडिमानि दशाऽपूपाः षडिति आदिर्यस्य जरद्वादि10 वाक्यस्य तत्तथोक्तमिति / दशदाडिमादिवाक्यमन्यपदार्थोपलक्षणपरतयोपात्तम् / तेन जरद्ग वादिवाक्यस्यैवापार्थता न दशदाडिमादिवाक्यस्य / यदि वा दाडिमानीत्यादौ क्रियापदमध्याहृत्यावान्तरवाक्यानि कल्पनीयानि / तेषु च शब्दार्थयोः सङ्घटनमस्तीति काव्यलक्षणयोगः / वाक्यसमुदायार्थस्तु नास्तीत्यपार्थत्वम् / एवं च द्वे अप्यत्रोदाहरणे सङ्गच्छेते एते इति / अत्र च ऊर्दवावमारुह्य तत्त्वैषां विशेषेण यदि विधीयते तदाऽपार्थदोषस्य न 15 किञ्चिदव्यवच्छिन्नं व्यवच्छेद्यं परिदृश्यत इति परिसङ्ख्यापरत्वं व्याख्येयम् / यदि वा तथाविधमन्यदव्यवच्छिन्नं व्यवच्छेद्यं परिकल्पनीयमिति / तथा हि पञ्चप्रभेदं काव्यमधिकृत्यायं संस्कारैः प्रस्तुतः / तेषु च पञ्चसु प्रभेदेषु यानि लक्षणानि तैरेव वाक्यसमुदायानर्थक्यं प्रतिषिद्धमिति नार्थस्तदर्थेनापार्थदोषेण / अन्यच्च महाकाव्ये ह्यर्थ्य मिति विशेषणमुक्तम् / अर्थात् प्रयोजनादनपेतमर्थ्यमिति / न च जरद्वादिवाक्यानां 20 प्रयोजनानपायः सम्भवति / महावाक्यैकवाक्यत्वाभावात् / अभिनेयार्थेष्वपि प्रख्यातवस्तुविषयमित्यादीनि यानि विशेषगानि तानि वाक्यलवैयदनर्थकं वाक्यमारब्धं तन्निरस्यन्ति / ___ आख्यायिकाकथयोरनाकुलविशेषगा पदवृत्तिरिति गद्यविशेषणं जरद्वादिवाक्यानामवसरं निरुणद्धि / अनाकुलं हि व्यवधानादिदोषाभावात् झटिति प्रस्तुतार्थप्रतीतिकारि काव्यम् / एवंविधे च कुत उदाहृतवाक्यरूपाणां वाक्यानामवसरः / अनिबद्धेऽपि सर्व25 मप्येतदिष्यत इत्युक्तं, तेन पूर्वोक्तलक्षणनिरासान्नानासम्बद्धवाक्यारब्धवाक्यसम्भवः / तस्मा' नानयापि गत्याऽपार्थदोषः सङ्गच्छते / / अत्र केचिद् ब्रुवते / काव्येषु महाकवीनामपि स्खलितानि दृश्यन्ते तन्निवारणार्थोऽयं 1. समास // 2. तत्त्वान्वेषणा // 3. हेयत्वेन दोषसंस्कारः // 4. -लब्धर्य-ख // 5. एतेषु पञ्चसु // 6 काव्ये होत्यत्र हिशब्दो योऽसौ यदर्थस्तस्योपसंहारोऽयं तस्मादिति //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy