________________ दोषदर्शनम् प्रयास इति / यथा विकाशमीयुर्जगतीशमार्गणा इत्यादि पक्तियमकम् / अत्र किलेयुरित्यावृत्ते भिधेयभेदः कश्चिदिति प्रयोजनाभावादपार्थत्वम् / नैतदपि सारम् / यत उक्त एकार्थदोषस्तेनैवेदृकप्रकाराणां दुष्टत्वमुपपादितमिति नार्थोऽनेने / अन्यथा पुनरेकार्थदोषो न वक्तव्यः स्यात् / सर्वासु पुनरुक्तिषु प्रयोजनान्तराभावेनापार्थदोषेऽन्तर्भावप्रसङ्गादिति / अन्ये पुनर्यत्र काव्ये प्रतिपन्नः संसर्गः प्रमाणान्तरपलोचनया बाध्यते तदपार्थ- 5 माहुः / यथा निरीक्ष्य विद्युन्नयनैः पयोदो मुखं निशायामभिसारिकायाः / धारानिपातैः सह किं [नु ? ] वान्त___ श्चन्द्रो मयेत्याततरं ररास // 10 अत्र मेघस्य निरीक्षणयोगोऽभिप्रायविशेषेण चार्त्ततरो निनादः प्रमाणेन विहन्यत इति अपार्थदोषः। नैतदपि युक्तम् / एवंविधेषु काव्येषु अन्त तेवशब्दयोग मन्यन्ते सूरयः। यथा घेत्तुआण चलविज्जुचडुलियं - राइआसु पुलयन्ति मेहया / सोउआण ओरल्लिसद्दयं ___महिलियाण का जियइ विरहए / गृहीत्वा चलद्विद्युत्प्रदीपं रात्रिषु प्रलोकयन्ति मेघाः / श्रुत्वा मेघशब्दं स्त्रीणां का जीवति विरहे // [छाया ] / पूर्वश्लोके तु विदर्शनालङ्कारं केचिन्मन्यन्ते / यतः शाब्दः संसर्गोऽसम्भवन् यत्रोपमानोपमेयभावं गमयति तत्र विदर्शनाव्यवस्था / प्राक्तनवाक्ये चाभिधावृत्त्या संसर्गो न 20 सम्भवति सोऽसम्भवन्नभिसारिकामुखस्य चन्द्रमसश्च सादृश्यं गमयति / प्रावृट्कालवर्णनायां तत्कालोचिताऽभिसारिका प्राकरणिकी भवतीति तन्मुखस्योपमेयत्वम् / उपमानत्वं चन्द्रमस इति / अपरे ब्रुवते वीक्षणपूर्वकस्य चन्द्रवमनस्य योऽसौ सन्देहस्तस्य रसनं प्रति हेतूस्प्रेक्षया हेत्वतिशयोक्त्या वा गर्भीकृतोपमार्थो गर्भीकृतरूपकार्थो वा ससन्देहालङ्कार एवाय- 25 मत्रावगम्यते / परमार्थतस्तु ससन्देहालङ्कारोऽपि अविद्यमानेऽपि सन्देहेऽलङ्कारान्तरप्रतिपादनागीकारेण सन्देहमध्यारोपयन् प्रवर्तत इति तस्याप्यौपम्यसंस्पर्शिनो विदर्शनया सह सन्दिह्यमानत्वात् सन्देहसङ्करो युक्त इति / 1. अपार्थेन // 2, ऊहरूपेण // 3. घेत्तुयाण ग. // 4. चुडुलियं ख. ग //