SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ दोषदर्शनम् सामान्यस्य नित्यस्य श्रावणतेति न विपक्षे असद्भावः, तथापि सौगतदृष्टया एतस्योदाहरणस्योक्तत्वाददोषः / न हि सौगतानां नित्यं पारमार्थिक सामान्यमस्ति, सामान्यव्यवहारस्य सांवृतत्वात् / तदेवं यस्य पक्षधर्मत्वमेवास्ति न तु सपक्षविपक्षयोः सत्त्वं सोऽसाधारणानैकान्तिको हेत्वाभास उक्तः / यस्य पुनः सपक्षे सत्त्वं विपक्षाच व्यावृत्तिरित्येतल्लक्षगद्वितयमस्ति न तु पक्षधर्मत्वं सोऽसिद्धो नाम हेत्वाभासः। यथा अनित्यः शब्दः चाक्षुषत्वादिति। चाक्षुषत्वं हि घटादावनित्ये विद्यते / नित्येषु च परमाण्वादिषु अस्मदाद्यपेक्षया चाक्षुषत्वं नास्तीति चाक्षुषत्वं सपक्षे सद् विपक्षाच्च व्यावृत्तम् / पक्षधर्मत्वं त्वस्य नास्ति शब्दस्याचाक्षुषत्वात् / तेनास्यासिद्धता / सौगतदृष्टया चायं प्रयोग इति नैतच्चोदनीयम् / सामान्यस्य घटत्वादेर्नित्यस्य चाक्षुषत्वाद् विपक्षाद् व्यावृत्तिरस्य नास्तीति असिद्धसाधारणोऽयं हेत्वाभास इति। सौगतानां घटत्वादेः सामान्यस्य कल्पितत्वेन नित्यत्वाभावात् / तदेवं लक्षणद्वितययोगित्वे त्रयो हेत्वाभासाः प्रदर्शिताः। एते च पूर्व रेकलक्षणयोगिभिस्त्रिभिः सह सङ्कलिताः पड् भवन्ति / ___ यस्य तु त्रैलक्षण्यं नास्ति स सप्तमो हेत्वाभासः / यथा अनित्यः शब्दः अकृतकत्वादिति / अस्य हि पक्षधर्मत्वं नास्ति शब्दस्य कृतकत्वात् / एवमनित्येषु धटादिष्वविद्यमानत्वात् सपक्षे सत्त्वस्याभावः / विपक्षागां तु नित्यानामाकाशादीनामकृतकत्वाद्विपक्षाद् व्यावृत्तिरस्य नास्ति / तेनात्र त्रैलक्षण्यस्याभावः / तेनायं पक्षधर्मत्वस्याभावादसिद्धः। सपक्षविपक्षयोश्च यथाक्रममसत्त्वात् सत्त्वाच्च विरुद्ध इति असिद्धविरुद्धो नाम हेत्वाभासः / अथ दृष्टान्तः / साध्यसाधनधर्मयोगी यः सिद्धपदार्थविशेष इति / यथा पर्वतादौ धूमवत्त्वादिना हेतुना वह्निमत्वादौ साध्ये महानसादिः / तत्र हि साध्यसाधनाभ्यां यौ / तुल्यौ धौ अग्निमत्त्वधूमवत्त्वादिलक्षगौ तत्सम्बन्धो वादिप्रतिवादिनोः प्रसिद्धः / अतोऽसौ साधम्र्येण दृष्टान्तः / यस्तु तद्विरहेण इत्यादि / यथा पूर्वस्मिन्नेव विषये जलादिः / तस्य हि साध्यसाधनविपर्यये वह्निमत्त्वधूमवत्त्वादिविपर्ययेण सिद्धिः / तत्र खलु वह्निमत्त्वाद्यभावो धूमवत्त्वाद्यभावेन व्याप्यः सिद्धः / अतोऽसौ साध्यसाधनविपरीतधर्मयोगाद्वैधम्र्येण दृष्टान्तः / दृष्टान्ताभासः पुनः इत्यादि / अनेन “तदाभस्तदवृत्तितः" इति व्याख्यातम् / तत्र साध्यस्यैवावर्त्तमानत्वात् साध्यविकलः / यथा शब्दानित्यत्वेऽमूर्त्तत्वेन हेतुना साध्ये आकाशम् / तत्र हि अमूर्तत्वमस्ति, न त्वनित्यत्वम् / साधनधर्मस्य त्ववृत्तेः साधनविकलः। यथा पूर्वस्मिन्नेव हेतौ घटः। तत्र हि अनित्यत्वं विद्यते / नत्वमूर्त्तत्वम् / साध्यसाधनविकलस्तु परमाणुः / अमूर्त्तत्वानित्यत्वयोरभावात् / एवमेते साधर्म्यद्धृष्टान्ताभासास्त्रयो दर्शिताः / 1, वैशेषिकाणां मते सामान्यस्य चाक्षुषत्वम् // 2 दृष्टान्तगतौ // 3. अभावे // 4. अभावेन //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy