SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके एवं वैधHदृष्टान्ताभासास्त्रयो भवन्ति / साध्याव्यावृत्तः साधनाव्यावृत्त उभयाव्यावृत्तश्चेति। साध्याव्यावृत्तः पूर्वस्मिन्नेव हेतौ घटः / तत्र हि अमूर्त्तत्वमेव नास्ति, न त्वनित्यत्वस्याभावः / घटस्यानित्यत्वात् / साधनाव्यावृत्तमाकाशम् / ततो ह्यनित्यत्वं व्यावृत्तं न त्वमूर्त्तत्वम् / उभयाव्यावृत्तं बुद्धयादि / तस्यामूर्त्तत्वाद् अनित्यत्वाच्च / लक्षणान्तरमाह इति / पूर्व साधर्म्यवैधHदृष्टान्तयोः साध्यसाधनधर्मसम्बन्धतद्विपर्ययौ लक्षणत्वेनोक्तौ / एवं चाश्रीयमाणे विवादास्पदीभूतपुरुषनिष्ठतया रागादिमत्त्वसाधनाय वक्तृत्वादी हेतुतयोपादीयमाने, रथ्यापुरुषस्य कुड्यादेश्च यथाक्रमं साधर्म्यवैधर्म्यदृष्टान्तताप्रसङ्गः / अत्र खलु यथाक्रमं साध्यसाधनयोग तद्विपर्ययो विद्यते / न चात्र साधर्म्यवैधर्म्यदृष्टान्तत्वं, साध्यसाधनयोस्तद्विपर्ययोश्च योगेऽपि व्याप्तिप्रदर्शनाक्षमत्वात् / न खलु वक्तृत्वादे रागादिमत्त्वाद्यभावेन सह कश्चिद्विरोधो विद्यते / यतो' वक्तृत्वादिना रागादिमत्त्वादिशून्येष्वभवता रागादिमत्वं साध्येत / अतोऽत्र व्याप्तिप्रदर्शनक्षमत्वाभावात् सत्यपि साध्यसाधनधर्मतद्विपर्यययोगित्वे साधयवैधHदृष्टान्तत्वं नास्तीत्यवश्यम्भावेन व्याप्तिप्रदर्शनक्षमत्वादि स्वशब्देनानुपात्तमभ्यूह्यम् / अतोऽत्रालक्ष्यव्यातिप्रसङ्गादसमाश्वास इति लक्षणान्तरमुपदर्शयतीत्यर्थः / साध्येन लिङ्गानुगतिरित्यत्र तु लक्षणे इति द्वयैकानुगतिव्यावृत्ती लक्ष्मसाधुतेतिवत् अन्वयव्यतिरेकयोः सनियमयोरुपादानात्तत्प्रदर्शनक्षमत्वेन साधर्म्यवैधर्म्य. दृष्टान्तलक्षणत्वेनाश्रीयमाणे यथोक्तदोषाप्रसङ्गः।। अथ दूषणानि / ननु च व्याख्याया इदम् इत्थम् एवम् इत्येवमात्मिकत्वेन उद्देशलक्षणपरीक्षास्वभावत्वात् , "प्रतिज्ञाहेतुदृष्टान्तदुष्टं हीनं च नेष्यते" इत्युदेशप्रस्तावे च दूषणानामनुद्दिष्टत्वाद् , दूषणगतस्य लक्षणपरीक्षाभिधानस्य उद्देशपूर्वकत्वाभावादकाण्डकूष्माण्डापातप्रख्यत्वं दूषणपरीक्षात्मिकाया व्याख्याया इति / अत्रोच्यते / किं दूषणानां शाब्दस्योद्देशस्याभावात् अनुद्दिष्टत्वमत्राभिधीयते, उतार्थस्योद्देशस्याभावात् ? तत्र यत्राऽऽर्थ उद्देशो विद्यते तत्र शाब्दोद्देशाभावो न कश्चिद्दोषमावहतीति न्यायशास्त्रेष्ववस्थितम् / इह च दूषणानामार्थ उद्देशो विद्यते / तथाहि तानि दूषणान्यभिधीयन्ते यैर्वाक्यैः परार्थानुमानात्मकः प्रतिज्ञा-हेतु-दृष्टान्तवाक्यानां समूहो वादिप्रयुक्तो व्यस्त-समस्तरूपतया प्रतिवादिना दूष्यते। तानि हि प्रतिवादिवाक्यानि वादिप्रयुक्तप्रतिज्ञादिवाक्यदोषोद्भावनसाधकतमत्वाद्दूषगशब्देन ल्युडन्तेनाभिधीयन्ते / इह च प्रतिज्ञाहेतुदृष्टान्ता दुष्टा यस्मिन् काव्य इति आहिताग्न्यादेराकृतिगगत्वात् कृतनिष्ठान्तपरनिपातेन 1. विरोधात् यस्मात् सकाशात् // 2 नियमगर्भीकारः सुगत एवादिशब्देन ग्राह्यः // 3. लक्षणमुपचारवृत्त्या //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy