SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कल्पलताविवेके अनन्तरोदीरितवर्मना प्रत्येकं नियमगर्भीकारेणोपदर्शितौ ते त्रैरूप्यं हेतुलक्षणभूतमुपस्कुर्वाते इत्यर्थः / लक्षणत्वे त्रयो, लक्षणद्वितययोगित्वे तु त्रय इति षट् , लक्षणत्रितयवैकल्ये तु एक इत्येवं सप्त हेत्वाभासभेदाः / तत्र यस्य पक्षधर्मत्वमेव विद्यते न तु सपक्षसत्वविपक्षव्यावृत्ती स विरुद्धो नाम हेत्वाभासः / यथा नित्यः शब्दः कृतकत्वादिति / कृतकत्वस्य हि नित्यत्वे साध्ये शब्देऽविद्यमानत्वात् पक्षधर्मत्वमेवास्ति / न तु सपक्षे आकाशादौ नित्ये विद्यमानता। नापि च विपक्षाद् घटादेरनित्याद् व्यावृत्तिः / एवं चायं सिषाधयिषितनित्यत्वविपरीतेनानित्यत्वेन व्याप्तत्वात्तदेव साधयन् विरुद्धो नाम हेत्वाभासो भवति / / ___यस्य तु सपक्ष एव सत्त्वं न तु पक्षधर्मत्वविपक्षव्यावृत्ती विद्यते सोऽसिद्धसाधारणानैकान्तिको नाम हेत्वाभासः / यथा नित्यः शब्दो मूर्त्तत्वादिति / मूर्त्तत्वस्य हि शब्दनित्यत्वे साध्ये शब्देऽविद्यमानत्वात् पक्षधर्मत्वं नास्ति / शब्दस्यामूर्त्तत्वात् / विपक्षेभ्यश्चानित्येभ्यो घटादिभ्यो व्यावृत्ति स्ति, घटादीनां मूर्त्तत्वात् / सपक्षे तु कणाददृष्टया नित्ये परमाण्वादौ अस्य सद्भावः / तेनायं पक्षधर्मत्वाभावादसिद्धः सपक्षविपक्षयोश्च विद्यमानत्वात् साधारणानैकान्तिकः / अतोऽस्यासिद्धत्वं साधारणानैकान्तिकत्वं च / __ यस्य तु विपक्षव्यावृत्तिरेवास्ति न तु पक्षसपक्षयोः सद्भावः सोऽसिद्धाऽसाधारणः / यथा नित्यः शब्दः अप्रमेयत्वात् / इति' शब्दस्य प्रमेयत्वेनाप्रमेयत्वाभावात् शब्दे अप्रमेयत्वमसिद्धं, सपक्षे च नित्ये परमाण्वादावप्रमेयत्वं नास्ति / परमाण्वादेः प्रमेयत्वात् विपक्षात्त्वनित्याद् घटादेरस्य व्यावृत्तिः। घटादेरनित्यस्य प्रमेयत्वात् / तदेवमयं पक्षधर्मत्वाभावादसिद्धः / सपक्षविपक्षयोश्चाभावादसाधारणः / अतोऽयमसिद्धासाधारणः / तदेवमेकलक्षणयोगे सति त्रयो हेत्वाभासाः प्रदर्शिताः / लक्षणद्वितययोगित्वे तु यस्य पक्षधर्मत्वं सपक्षे सत्त्वं चास्ति न तु विपक्षाद् व्यावृत्तिः स साधारणानैकान्तिको नाम हेत्वाभासः / यथा अनित्यः शब्दः अमूर्त्तत्वादिति / शब्दस्यामूर्त्तत्वात् पक्षधर्मत्वमत्रास्ति / सपक्षस्य च बुद्ध्यादेरनित्यस्यामूर्त्तत्वात् सपक्षे सत्वं विद्यते / विपक्षात्तु नित्यादाकाशादेरमूर्त्तत्वस्य व्यावृत्तेरभावः / तेनायं पक्षसपक्षविपक्षेषु त्रिषु वर्तमानत्वात् साधारणानैकान्तिकः / यस्य तु पक्षधर्मत्वविपक्षव्यावृत्ती विद्यते न तु सपक्षे सत्त्वं तस्यासाधारणानैकान्तिकता / यथाऽनित्यः शब्दः श्रावणत्वादिति / श्रावणत्वं शब्द एव विद्यते / न तु सपक्षविपक्षयोरनित्यनित्ययोरिति असाधारणानैकान्तिकत्वम् / यद्यपि च कणाददृष्टया शब्दत्वादेः 1. क-ख-पुस्तकयो स्ति //
SR No.032756
Book TitleKalplata Vivek
Original Sutra AuthorN/A
AuthorMurari Lal Nagar, Harishankar Shastry
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages550
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy