SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ बीजव्यावनपरिच्छेदः। [103 इत्यादिभिः पदैः विशेषणानि कोटिश उत्पद्यन्ते / पद्मं पद्मिनी पद्मोदय इत्यादिपदानां न पौनरुक्त्यं भङ्गान्तरेण भणितत्वात् / तथा श्वेतादिभिः पञ्चभिर्वर्णैरिवादियुक्तैः श्लोका भवन्ति / तद्यथा श्रीखण्डद्वचर्चिता इव डिण्डीरपिण्डमण्डिता इव यस्य यशोभिर्दिशो बभुः, इत्यादि / इदानीं दोषबीजमाह चन्द्रे लक्ष्माम्बुधौ जाड्यं खरत्वं दिवसेश्वरे / कण्टकत्वं च पद्मिन्यां कूटत्वं कनकाचले // 169 // नग्नत्वं चन्द्रमौलौ च शून्यत्वं व्योममण्डले / खड्गे कुशीलता श्लेषे गुणघातश्च कार्मुके // 170 // 10 स्वपुत्र्यामनुरागश्च प्रोक्तश्च परमेष्ठिनि / ' रुक्मिणीहरणं विष्णौ भरते भ्रातृविग्रहः // 171 // गजेन्द्र दानविच्छेदो लक्षणे सर्वलोपता / कङ्कणे मध्यशून्यं च (? न्यत्वं) रामे क्रौञ्चविदारणम् // 172 // परदाराभिगमत्वं वज्रपाणौ प्रकीर्तितम् / अचेतनत्वं कल्पद्रो मात्स्यो न्यायस्तिमौ तथा // 173 // शून्यवृद्धिर्भवेदके लोलत्वं मृगचक्षुषि / स्वर्गे विमानसंसर्गः शून्यताधारणं श्रियः // 17 // वक्रत्वं छन्दसि गुरौ तुलारोहश्च भास्करे / हतोऽश्वत्थामेति गिरोऽसत्यवाचो युधिष्ठिरे / वृषव्यापादनं विष्णौ इति दोषाः प्रकीर्तिताः // 175 // सर्वेऽपि सदोषाः प्रायः पदार्थास्ततः केन समं भवानुपमीयते ? / स्पष्टम् / असत्संभाक्नगिरा भवेदों मनीषिणाम् / ___ व्याख्या—यद्याकाशमङ्गुल्यामनुमीयते, यदि पाथोनाथः प्रस्थद्रोणादिभिश्च, 25 यदि शेषस्येव मम सहस्रवकत्रत्वम् , यदि इन्द्रस्येव नयनसहस्रत्वम् , यदि ब्रह्मण इव मम चतुर्वक्वं भवेत् , तदा तक गुणा वर्णयितुं मया शक्याः / 15 20
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy