SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ बीजव्यावर्णनपरिच्छेदः / चण्डी- त्रिशूलभिन्नमहिषासुरासृक्कृतकर्दमा / सहस्रोदारदोर्दण्डा चण्डी मुण्डबिडम्बिता // 88 // जिनयक्षा:- प्रसन्नपावनाकारा जिनपादकृतालयाः / चतुर्भुजा महाकायाः सङ्घसान्निध्यकारिणः // 89 // ते च गोमुखाद्याः / अथ आश्रमबीजानि अथ तत्रानवरताध्ययनध्वनिमुखराणि, भस्मपुण्डूकपाण्डुरललाटैः कपिशशिखानालजटिलैः कृशानुभिरिव क्रतुलोभागतैर्बटुभिरध्यास्यमानानि, सेकसुकुमारसोमकेदारिकाहरितायमानप्रधणानि, कृष्णाजिनविकीर्यमाणशुष्यत्पुरोडाशीयश्यामाकतण्डुलानि, बालिकाविकीर्यमाणनीवारबलीनि, शुचिशिष्यगणानीयमानहरितकुशपूलीपलाशसमिन्धि, इन्धन- 10 गोमयपिण्डकूटसंकटानि, आमिक्षीयेक्षीरक्षारिणीनामग्निहोत्रधेनूनां खुरवलयैर्विलिखिताजिरवितर्दिकानि, क(का)मण्डलव्यमृत्पिण्डमर्दनव्यग्रयतिजनानि, वैतानवेदीशङ्कव्यानामौदुम्बरीणां शाखानां राशिभिः पवित्रितपर्यन्तानि, वैश्वदेवपिण्डपक्तिपाण्डुरितप्रदेशानि, हविधूमधूसरिताङ्गनविटपिकिसलयानि, वत्सीयवत्सपालकलालितललत्तरतर्णकानि, क्रीडत्कृष्णसारछागशावप्रकटितपशुबन्धप्रबन्धानि, शुकशारिकाग्रन्थाध्ययनदीयमानोपाध्याय- 15 विश्रान्तिसुखानि, साक्षात्त्रयीतपोवनानीव चिरदृष्टाना बान्धवानां प्रीयमाणो भ्रमन् भवनानि, आश्रमाणां सुखमतिष्ठत् / [ हर्षचरिते द्वितीयोच्छ्वासे / मित्रोपकरणामात्मा, भृत्योपकरणं प्रभुत्वम्, पण्डितोपकरणं वैदग्ध्यम् , बान्ध.. वोपकरणं लक्ष्मीः. कृपणोपकरणमैश्वर्यम्, द्विजोपकरणं सर्वस्वम्, सुकृतसंस्मरणोपकरण 20 हृदयम्, धर्मोपकरणमायुः, साहसोपकरणं शरीरम्, असिलतोपकरण पृथ्वी, विनोदोपकरणं राजकम्, प्रतापोपकरणं प्रतिपक्षः, नास्याल्पपुण्यैरवाप्यते / अथ कुलवधूः-नीरङ्गी पतिभक्ता गुरुजनशुश्रूषणासु निष्णाता / लज्जावती गुणवती प्रेमवती स्वल्पवचना च // 90 / / 1 दना सह पयः स(१)तम् / आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः' / [अमरकोश, १३९८]-सं.
SR No.032755
Book TitleKavyashiksha
Original Sutra AuthorN/A
AuthorVinaychandrasuri, Hariprasad G Shastri
PublisherL D Indology Ahmedabad
Publication Year1964
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy