________________
॥ सवृत्तिपिण्डनिर्युक्तिः ॥
उक्खेवे गाहा । व्याख्या - उत्क्षेपे = उत्पाटने निक्षेपे = मोचने महतो मात्रकस्य दातुः पीडा भवति, लुब्धता साधोः, वधे = मात्रकभङ्गे दाहो भवति, 'अचियत्ते 'ति अप्रीती दातुस्तद्द्द्रव्यादेर्व्यवच्छेदो, द्वयोरपि भङ्गकयोर्ग्रहणे दोषा भवन्तीति गाथार्थः॥६०६॥
शुष्के आर्द्रमित्यस्मिन् द्वितीयभङ्गके भजनामाह—
१४६
थोवे थोवं छूढं सुक्के उल्लं व तं तु आइण्णं । बहुयं तु अणाइण्णं कडदोसो सो त्ति काऊणं ॥ ६०७ ॥ दारं ॥
थोवे गाहा । व्याख्या - स्तोके स्तोकं प्रक्षिप्तं तदपि च शुष्के आर्द्रं वा तत् त्वाचरितम्, स्तोकत्वात्; बहुकं त्वनाचरितं कृतदोषः स इति कृत्वेति गाथार्थः ॥ ६०७॥ गतं संहृतद्वारम्। साम्प्रतं दायकद्वारमाह— ददतीति दायकाः, तत्र यैर्ददद्भिर्ग्राह्यमग्राह्यं वा देयं तानाह
बाले वुड्ढे मत्ते उम्मत्ते वेविते य जरिते य।
अंधिल्लए पगलिए आरूढे पाउयाहिं च ॥ ६०८॥
बाले गाधा । व्याख्या - बालो, वृद्धो, मत्तः, उन्मत्तो, वेपमानो ज्वरितश्च अन्धश्च प्रगलितो = गलत्कृष्ठ इत्यर्थः, पादुकारूढश्च अत्र च एकारान्तः शब्दः प्रथमान्तो द्रष्टव्य इति गाथापदच्छेदः॥६०८॥
हत्थंदु-नियलबद्धे विवज्जिए चेव हत्थ - पादेहिं ।
तेरासि गुव्विणी बालवच्छ भुंजंति घुसुलिंती ॥ ६०९॥
हत्थिं० गाहा। व्याख्या - हस्तान्दुक - निगडबद्धो बद्धशब्दोऽत्र प्रत्येकं योजनीयः, विवर्जितो हस्त-पादाभ्यां, त्रैराशिकः = नपुंसक इत्यर्थः, गुर्विणी, बालवत्सा, भुञ्जाना, 'घुसुलेंति' ति दध्यादि मथ्नतीति गाथार्थः ॥ ६०९ ॥
भजंती य दलेंती कंडंती चेव तह य पीसंती । पिंजंती रुचंती कत्तंति पमद्दमाणी य ॥६१०॥
भजंती गाहा । व्याख्या - भर्जमाना चणक-यव- धानादि, दलन्ती मृद्ग-मसूरादि कण्डमाना चैव तण्डुलादि तथा च पिंषन्ती तिला ऽऽमलकादि, पिञ्जन्ती रूतादि, 'रुञ्चन्तीति लोठन्यां कर्पासं लोठयन्तीत्यर्थः, कृन्तन्ती कर्पासं कृती वेष्टने ( ) रौधादिकस्य धातोः कर्त्तरि स्त्रियां रूपमेतत्, 'पमद्दमाणी य'त्ति रूतं कराभ्यां पौनःपुन्येन मृद्नतीति गाथार्थः॥६१०॥ छक्कायवग्गहत्था समणट्ठा णिक्खिवित्तु ते चेव ।
(टि०) १. छोढुं जे२ विना ॥ २. तु जे४ भां० ॥ ३. बद्धो जे२ ॥ ४. ०देसु जे१ ॥ (वि०टि० ) . कृतदोषाः अनन्तरगाथायामुक्तदोषाः ॥