SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ ५६ संकीर्णदैत्यामरपौरवर्गमत्यद्भुतं तन्महिमानमीक्ष्य | भवाभवाभ्युत्थितचेतसस्ते यद्विस्मयो नाम स विस्मयोऽयम् ॥ १४ ॥ प्रतीच्छतस्ते सुरपस्य केशान् क्षीरार्णवोपायनलब्धबुद्धेः । प्रसादसायामतरं तदाभू दक्ष्णां यथार्थानिमिषं सहस्त्रम् ॥ १५ ॥ ( इन्द्रवज्रा अज्ञातचर्यामनुवर्तमानो यद् दुर्जनाधृष्यवपुस्त्वमासीः । नानासनोच्चावचलक्षणाङ्क मूर्तेस्तदत्यद्भुतमीहितं मे ॥ १६ ॥ शिवाशिवव्याहृतनिष्ठुरायां रक्षः पिशाचोपवनान्तभूमौ । समाधिगुप्तः समजागरूकः कायं समुत्सृज्य विनायकेभ्यः ॥ १७ ॥ वन्ध्याभिमानं कृतवानसि ही संसर्गपात्रं जिन ! संगमं यत् । प्रीतत्रिनेत्रार्चित ! नृत्तपुष्पै स्तेनासि लोकत्रयवीर ! वीरः ॥ १८ ॥ आनन्दनृत्तप्रचलाचला भूः बृहद्-निर्ग्रन्थ-स्तुतिमणिमञ्जूषा प्रत्युद्धतोद्वेलजलः समुद्रः । सौम्योऽनिलः स्पर्शसुखेऽभिजातः शुभाभिधाना मृगपक्षिणश्च ॥ १९ ॥ सर्वावतारः सुरदैत्यनाग गरुत्मतां प्रोषितमत्सराणाम् । बभूवुरन्यानि च तेऽद्भुतानि त्रैलोक्यविघ्नेश्वरमोहशान्तौ ॥ २० ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy