SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि (उपजातिः) अबुद्धखेदोपनतैरनेकै ___ रसाध्यरागाविषमोपचारैः नरेश्वरैरात्महितानुरक्तै चूडामणिया॑पृतपादरेणुः ॥ ७ ॥ स्वयं प्रभूतैनिधिभिनिवृत्तैः प्रत्येकमम्भोनिचयप्रसूतैः । आशासनं सर्वजनोपभोग्यै र्धनेश्वरः प्रीतिकरः प्रजानाम् ॥ ८ ॥ दिक्पालभुक्त्या वसुधां नियच्छन् प्रबोधितो नाम सुरैः समायः । लक्ष्म्या निसर्गोचितसङ्गतायाः सितातपत्रप्रणयं व्यनौत्सीत् ॥ ९ ॥ अपूर्वशोकोपनतक्लमानि नेत्रोदकक्लिन्नविशेषकाणि विविक्तशोभान्यबलाननानि विलापदाक्षिण्यपरायणानि ॥ १० ॥ मुग्धोन्मुखाक्षाण्युपदिष्टवाक्य संदिग्धजल्पानि पुरःसराणि । बालानि मार्गाचरणक्रियाणि प्रलम्बवस्त्रान्तविकर्षणानि ॥ ११ ॥ अकृत्रिमस्नेहमयप्रदीर्घ ___दीनेक्षणाः साश्रुमुखाश्च पौराः । संसारसात्म्यज्ञ जनैकबन्धो ! न भावशुद्धं जगृहुर्मनस्ते ॥ १२ ॥ सुरासुरैविस्मृतदीर्घवैरैः परस्परप्रीतिविषक्तनेत्रैः । त्वद्यानधूः सद्यवहैर्बभासे । संदिग्धसूर्यप्रभमन्तरिक्षम् ॥ १३ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy