SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ ( २ ) श्रीसिद्धसेनदिवाकरप्रणीता पञ्चमी द्वात्रिंशिका (प्रायः ईस्वी पंचमशताब्द्या: प्रथमचरणम्) (उपजातिवृत्तम्) आराध्यसे त्वं न च नाम वीर ! स्तवैः सतां चैष हिताभ्युपायः । त्वन्नामसंकीर्तनपूतयत्नः सद्भिर्गतं मार्गमनुप्रपत्स्ये ॥ १ ॥ जाने यथाऽस्मद्विधविप्रलापः क्षेपः स्तवो वेति विचारणीयम् । भक्त्या स्वतन्त्रस्तु तथापि विद्वन् ! क्षमावकाशानुपपादयिष्ये ॥ २ ॥ गम्भीरमम्भोनिधिनाऽचलैः स्थितं शरद्दिवा निर्मलमिष्टमिन्दुना । भुवा विशालं द्युतिमद् विवस्वता बलप्रकर्षः पवनेन वर्ण्यते ॥ ३ ॥ गुणोपमानं न तवात्र किञ्चि दमेयमाहात्म्य ! समञ्जसं यत् । समेन हि स्यादुपमाभिधानं न्यूनोऽपि ते नास्ति कुतः समानः ॥ ४ ॥ अमोह ! यत्तां वसुधावधूं य न्मानानुरोधेन पितुश्चकर्ष । ज्ञानत्रयोन्मीलितसत्पथोऽपि तत्कारणं कोऽच्युत ! मन्तुमीशः ? ॥ ५ ॥ ( उपेन्द्रवज्रा ) अनेकजन्मान्तरभग्नमान: स्मरो यशोदाप्रिय ! यत् पुरस्ते । चचार निर्हीकशरस्तमर्थं त्वमेव विद्याः सुनयज्ञ ! कोऽन्यः ? ॥ ६ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy