SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ संस्कृतभाषानिबद्धानि स्तुति-स्तोत्राणि चन्द्रांशवः कमलगर्भविषक्तमुग्धाः ___ सूर्योऽप्यजातकिरणः कुमुदोदरेषु । वीर ! त्वमेव तु जगत्यसपत्नवीर त्रैलोक्यभूतचरिताप्रतिघप्रकाशः ॥ २८ ॥ यश्चाम्बुदोदरनिरङ्कशदीप्तिरर्क स्तारापतिश्च कुमुदद्युतिगौरपादः । ताभ्यां तमो गुपिलमन्यदिव प्रकाश्यं कस्तं प्रकाशविभवं तव मातुमर्हः ॥ २९ ॥ नार्थान् विवित्ससि न वेत्स्यसि नाप्यवेत्सी न ज्ञानवानसि न तेऽच्युत ! वेद्यमस्ति । त्रैलोक्यनित्यविषमं युगपच्च विश्वं पश्यस्यचिन्त्यचरिताय नमोऽस्तु तुभ्यम् ॥ ३० ॥ शब्दादयः क्षणसमुद्भवभङ्गशीलाः संसारतीरमपि नास्त्यपरं परं वा । तुल्यं च तत् तव तयोरपरोक्षमाप्सु त्वय्यद्भुतोऽप्ययमनद्भुत एव भावः ॥ ३१ ॥ (पृथ्वी) अनन्यमतिरीश्वरोऽपि गुणवाक् समाः शाश्वती र्यदा न गुणलोकपारमनुमातुमीशस्तव । पृथग्जनलघुस्मृतिर्जिन ! किमेव वक्ष्याम्यहं मनोरथविनोदचापलमिदं तु नः सिद्धये ॥ ३२ ॥
SR No.032701
Book TitleBruhad Nirgranth Stutimani Manjusha Part 01
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2017
Total Pages286
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy