________________
५२
दैत्याङ्गनातिलकनिष्ठुरवज्रदीप्तौ
शक्रे सुरौधमुकुटार्चितपादपीठे । तिर्यक्षु च स्वकृतकर्मफलेश्वरेषु
तद्वाक्यपूतमनसां न विकल्पखेदः ॥ २१ ॥
बृहद् - निर्ग्रन्थ-स्तुतिमणिमञ्जूषा
यैरेव हेतुभिरनिश्चयवत्सलानां
सत्त्वेष्वनर्थविदुषां करुणापदेशः । तैरेव ते जिन ! वचस्स्वपरोक्षतत्त्वा
माध्यस्थ्यशुद्धमनसः शिवमाप्नुवन्ति ॥ २२ ॥
एकान्तनिर्गुण ! भवन्तमुपेत्य सन्तो
यत्नार्जितानपि गुणाञ्जहति क्षणेन । क्लीबादरस्त्वयि पुनर्व्यसनोल्बणानि
भुङ्क्ते चिरं गुणफलानि हि तापनष्टः ॥ २३ ॥
कुर्वन् न मारमुपयाति न चाप्यकुर्वन्
नास्यात्मनः शिवमहद् धैर्यबलं निधानम् ।
वेदन् तमेवमवसादितवेदमत्त्वाद्
भूयो न दुःखगहनेषु वनेषु शेते ॥ २४ ॥
कर्त्ता न कर्मफलभुग् न च कर्मनाशः
कर्त्रन्तरेऽपि च न कर्मफलोदयोऽस्ति । कर्त्ता च कर्मफलमेव स चाप्यनाद्य
स्त्वद्वाक्यनीतिरियमप्रगताऽन्यतीयैः ॥ २५ ॥
भीरोः सतस्तव कथं त्वमरेश्वरोऽसौ
वीरोऽयमित्यनवधाय चकार नाम । मृत्योर्न हस्तपथमेत्य बिभेति वीरस्तवं
तस्य गोचरमपि व्यतियाय लीनः ॥ २६ ॥ नादित्यगर्वजमहस्तव किञ्चिदस्ति
नापि क्षपा शशिमयूखशुचिप्रहासा । रात्रिंदिनान्यथ च पश्यसि तुल्यकालं
कालत्रयोत्पथगतोऽप्यनतीतकालः ॥ २७ ॥