SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ रघुवंशे हिन्दी-लंका में बन्दरों और राक्षसों का ऐसा भयंकर युद्ध आरम्भ हुआ कि जिसमें चारों दिशाओं में राम और रावण की जय-जय कार का शब्द व्याप्त हो गया। अर्थात् गूंज उठा ।। ७२ ॥ पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः। अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः ॥ ७३ ।। किंविधो रणः । पादपैर्वृक्षराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः । 'परिघः परिघातनः' इत्यमरः। शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्रा अयोधना यस्मिन्स तथोक्तः । 'द्रुघणो मुद्गरवनौ' इत्यमरः। अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः । शैलै रुग्णा भग्ना मतंगजा यस्मिन्स तथोक्तः ।। अन्वयः--पादपाविद्धपरिवः शिलानिष्पिष्टमुद्गरः अतिशस्त्रनखन्यासः शैलरुग्णमतंगजः रणः प्रववृते, इति पूर्वेणान्वयः ।। __व्याख्या--परितः हन्यतेऽनेनेति परिधः । पादपैः = वृक्षैः आविद्धाः = भग्नाः परिवाः = परिघातनाः, लौहमुखलगुडाः यस्मिन् स पादपाविद्धपरिधः । शिलाभिः = पाषाणैः निष्पिष्टाः= चूर्णिताः मुद्गराः घनाः == अयोधना इत्यर्थः यस्मिन् स शिलानिष्पिष्टमुद्गरः। “परिवः परिघातनः" इति “द्रुघणो मुद्गरधनौ' इति चामरः। गिरतीति गिरः, मुदः = हर्षस्य गिरः मुद्गरः। शस्त्राणि अतिक्रान्ताः इति अतिशस्त्राः । नखानां - कररुहाणां न्यासाः इति नखन्यासाः । अतिशस्त्राःशस्त्रेभ्योप्यधिकाः नखन्यासाः= नक्षतानि यस्मिन् सः अतिशस्त्रनखन्यासः । शल:= महापर्वतैः रुग्णाः=भन्नाः मतंगजाः= मत्तदन्तिनः यस्मिन् स शेलरुग्णमतंगजः रणः प्रववृते इति पूर्वश्लोकेनान्वयः । समास -पादपैः आविद्धाः परिघाः यस्मिन् स तथोक्तः। शिलाभिः निष्पिष्टाः मुद्गराः यस्मिन् स तथोक्तः । शस्त्राणि अतिक्रान्ताः अतिशस्त्राः। अतिशस्त्राः नखानां न्यासाः यस्मिन् सः अतिशस्त्रनखन्यासः । शैल रुग्णाः मतंगजाः यस्मिन् स शैलरुग्णमतंगजः । हिन्दी-उस युद्ध में कपिसेना ने, पेड़ों से मार-मार कर राक्षसों की लोहे को गदाएं तोड़ दी और चट्टाने वर्षा कर लोह लगी मुदगरें पीस डाली । तथा शस्त्रों के घावों से बढकर ( भयंकर ) बन्दरों के नाखूनों के घाव थे। और पर्वतों से उन्मत्त हाथियों को मार डाला था, ऐसा भयंकर युद्ध प्रारम्भ हुआ ॥ ७३ ॥ अथ रामशिरश्छेददर्शनोभ्रान्तचेतनाम् । सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥ अथानन्तरम् । छिद्यत इति छेदः खण्डः । शिर एव छेद इति विग्रहः । रामशिरश्छेदस्य विधुज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं न त्वेतत्सत्यमिति शंसन्ती ब्रुवाणा । 'शश्यनोनित्यम्' इति नित्यं नुमागमः । समजीवयत् ॥ __अन्वयः-अथ रामशिरश्छेददर्शनोभ्रान्तचेतनाम् , सीतां त्रिजटा माया इति शंसन्ती समजीवयत् ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy