SearchBrowseAboutContactDonate
Page Preview
Page 983
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १०९ तेनोत्तीर्य पथा लङ्कां रोधयामास पिङ्गलेः । द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥ रानस्तेन पथा सेतुमार्गेणोत्तीर्य । सागरमिति शेपः। पिङ्गलैः सुवर्णवर्णैरत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास । अन्वयः-रामः तेन पथा उत्तीर्य पिंगलैः "अत एव” द्वितीयं हेमप्राकारं कुर्वद्भिः इव स्थितैः वानरैः लंकां रोधयामास ॥ व्याख्या-रामः तेन पथा = सेतुवर्त्मना सागरमुत्तीर्य = समुद्रं तीा पिञ्जन्तीति वा पिंगं = वर्ण लान्तीति पिङ्गलास्तैः पिङ्गलैः = पिशङ्गः सुवर्णवणैरित्यर्थः। अत एव द्वितीयम् = अपरम् हेम्नः = सुवर्णस्य प्राकारः = वरणः तं हेमप्राकारं "प्राकारो वरणः सालः" इत्यमरः । सुवर्णप्राचीरमिव कुर्वद्भिः =कुर्वाणैः इव = यथा स्थितैः वने भवं फलादि वानम्, वानं लान्ति = आददतीति वानरास्तैः वानरैः । वा = किंचित् नरा इव वानरास्तैः वानरैः= प्लवङ्गमैः, हनुमन्नलनीलादिभिः लंकां =राक्षसपुरी रोधयामास =रोधयति स्म । समासः-हेम्नः प्राकारः हेम प्राकारस्तं हेमप्राकारम् । __ हिन्दी-उस पुल के मार्ग से सागर को पार कर के रामजी ने लंका नगरी को वानरों से घेर लिया। सोने के समान वर्ण वाले उन पील-पीले बन्दरों से घिरी हुई लंका ऐसी दीखती थी "मानो" चारों और दूसरी सोने की दीवार खड़ी हो। अर्थात् सोने की लंका की दीवार परकोटा पहले सोने का था ही, और अब दूसरी दीवार सुवर्ण वर्ण के बन्दरों की हो गई थी।। ७१ ।। रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् । दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ ७२ ॥ तथा लङ्कायां प्लवगानां रक्षसां च भीमो भयंकरो दिग्विजम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयवोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः। 'अस्त्रियां समरानीकरणाः कलहविग्रहौ' इत्यमरः ॥ अन्वयः-तत्र प्लवगरक्षसां भीमः दिग्विजृम्भितकाकुत्स्थपौलस्त्यजयघोषणः रणः प्रववृते । व्याख्या-तत्र = लंकायां प्लवगाः = वानराः रक्षांसि =राक्षसाश्च इति प्लवगरक्षांसि, तेषां प्लवगरक्षसाम् भीमः = भयंकरः काकुत्स्थः =रामश्च पौलस्त्यः = रावणश्चेति काकुत्स्थपौलस्त्यौ तयोः काकुत्स्थपौलस्त्ययोः जयः = विजयस्तस्य घोषणं = प्रख्यापनम् इति काकुत्स्थपौलस्त्यजयवोषणम् । दिक्षुकाष्ठासु विजम्भितं= प्रसृतं व्याप्तं, काकुत्स्थपौलस्त्ययोर्जयघोषणं यत्र स दिग्विजम्भितकाकुत्स्थपौलस्त्यजयघोषणः रणः= युद्धम् "रणः कोणे कणे पुंसि समरे पुनपुंसकम्” इति मेदिनी, प्रववृते प्रारब्धः।। समासः-प्लवगाश्च रक्षांसि चेति प्लवगरक्षांसि तेषां प्लवगरक्षसाम्। काकुत्स्थश्च पौलस्त्यश्चेति काकुत्स्थपौलस्त्यौ, दिक्षु विजम्भितं काकुत्स्थपौलस्त्ययोर्जयस्य घोषणं यस्मिन् स काकुत्स्थपौलस्त्यजयघोषणः।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy