SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः १११ व्याख्या-अथ = अनन्तरम् छिद्यते इति छेदः । रामस्य शिरः = मस्तकमिति रामशिरः एव छेदः खण्डः इति रामशिरश्छेदः, तस्य दर्शनम् = अवलोकनं तेन उद्भ्रान्ता= भ्रान्तिमापन्ना चेतना =संज्ञा, ज्ञानमित्यर्थः, यस्याः सा तां रामशिरश्छे ददर्शनोद्भ्रान्तचेतनाम् , सीतां =जानकी जटति = परस्परं संलग्ना भवतीति जटा। जायते = प्रादुर्भवतीति वा जटा । तिस्रः जटाः = शिखाः यस्याः सा त्रिजटा, एतन्नाम्नी सीताहिते रता राक्षसी माया = विद्युज्जिह्वनामकराक्षसनिर्मिता, ऐन्द्रजालिकमिदं शिरश्छेदप्रदर्शनं नतु सत्यमिति शंसन्ती = कथयन्ती समजीवयत् तत्प्राणानरक्षयत् ।। समासः-रामस्य शिर एवं छेदः रामशिरश्छेदस्तस्य दर्शनं तेन उद्भ्रान्ता चेतना यस्याः सा तां रामशिरश्छेददर्शनोभ्रान्तचेतनाम् । तिनः जटाः यस्याः सा त्रिजटा । हिन्दी-"युद्धारम्भ होने पर इसी समय” “विद्युज्जिह्व नाम के राक्षस ने माया से" राम का शिर रूपी टुकड़ा ( मुण्ड ) सीता के सामने रख दिया, उसे देखते ही सीताजी मूच्छित हो गई । तभी त्रिजटा नाम की राक्षसी ने यह तो माया का झूठा शिर है कहते हुए सीताजी को जिलाया-बचाया ॥ ७४ ॥ कामं जीवति में नाथ इति सा विजहौ शुचम् । प्राङ् मत्वा सत्यमस्वान्तं जीवितास्मीति लजिता ॥ ७५ ॥ सा सीता मे नाथो जीवतीति हेतोः शुचं शोक कामं विजहौ। किंतु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थ मत्वा जीविता जीवित वत्यस्मीति हेतोर्लज्जिता लज्जावती। कतरि क्तः । दुःखादपि दुःसहो लज्जाभर इति भावः ॥ अन्वय.-सा मे नाथः जीवति इति शुचं कामं विजहौ । “किन्तु" प्राक् अस्य अन्तं सत्यं मत्वा जीविता अस्मि इति लज्जिता। व्याख्या--सा= सीता मे = मम सीतायाः इत्यर्थः नाथः= स्वामी पतिः जीवति = प्राणान् धारयति, इति = हेतोः शुचं = शोकं काम = यथेष्टं विजहौ =तत्याज । किन्तु प्राक् = पूर्व, त्रिजटाबोधनात् पूर्वमित्यर्थः । अस्य = नाथस्य पत्युः अन्तं = विनाशं सत्यं = वास्तविक मत्वा = निश्चित्य जीविता = जीवितवती अस्मि, पतिनाशं श्रुत्वाऽपि पूर्व नाहं मृता इति हेतोः लज्जा संजातास्याः सा लज्जिता = लज्जावती जाता। हिन्दी-मेरे नाथ ( पति देव ) जीवित हैं यह जानकर सीता ने शोक का तो सर्वथा त्याग कर दिया। किन्तु पहले पति के विनाश को सच मानकर मैं जीवित रही ( मर क्यों नहीं गई ) यह सोचकर बड़ी लज्जित हुई। भाव यह है कि दुःख तो सहा जा सकता है, किन्तु लज्जा असह्य होती है ।। ७५ ॥ गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः । दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ ७६ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy