SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ .१०८ रघुवंशे अन्वयः-राघवः तस्मै निशाचरैश्वर्य प्रतिशुश्राव, “तथाहि-" काले समारब्धाः नीतयः फलं बध्नन्ति खलु। ___ व्याख्या-राघवः= रामचन्द्रः तस्मै = विभीषणाय निशायां = रात्रौ चरन्ति = गच्छन्ति, भक्षयन्ति च इति निशाचराः। निशाचराणां = राक्षसानाम् ऐश्वर्य = राजलक्ष्मीः, तत् निशाचरैश्वर्यं = लंकाधिपत्यमित्यर्थः । प्रतिशुश्राव = तुभ्यं दास्यामीति प्रतिज्ञातवान् । तथाहिकाले = अवसरे समारब्धाः= प्रक्रान्ताः, कृतारम्भा इत्यर्थः, नीयन्ते=संलभ्यन्ते उपायादयः, ऐहिकामुष्मिकार्थाः वा यासु, आभिर्वा ताः नीतयः= नयाः फलं = सस्यादिकं, लाभं बध्नन्ति = गृह्णन्ति, उत्पादयन्तीत्यर्थः खलु = निश्चयेन । समासः-निशाचराणाम् ऐश्वर्यमिति निशाचरैश्वर्यं तत् निशाचरैश्वर्यम् । सम्यग् आरब्धाः समारब्धाः । हिन्दी-रामचन्द्र जी ने विभीषण को राक्षसों का राजा बना देने की प्रतिज्ञा की। अर्थात् लंका का राज्य देना स्वीकार कर लिया। ठीक भी है। अवसर ( मौके पर ) आरम्भ की हुई ( काम में लाई हुई ) नीति अवश्य फल देती है ॥ ६९ ॥ स सेतुं बन्धयामास प्लवगैलवणाम्भसि । रसातलादिवोन्मग्नं शेषं स्वप्नाय शाङ्गिणः ॥ ७० ॥ स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भास्तस्मिल्लवणाब्धौ प्लवगैः प्रयोज्यैः । शाङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात्पातालादुन्मग्नमुत्थितं शेषमिव स्थितम् । सेतुं बन्धयामास ॥ अन्वयः-सः लवणाम्भसि प्लवगैः "प्रयोज्यकर्तृभिः" शाङ्गिणः स्वप्नाय रसातलात् उन्मग्नं शेषम् इव सेतुं बन्धयामास । व्याख्या--सः रामः प्रयोजककर्ता लवणं =क्षारम् अम्भः= जलं यस्यासौ लवणाम्भाः, तस्मिन् लवणाम्भसि = लवणोदे प्लवेन = प्लुत्या गच्छन्तीति प्लवगास्तैः वानरैः प्रयोज्यकर्तृभिः, श्रृंगस्य विकारः शाङ्ग = धनुरस्यास्तीति शाङ्गो तस्य शाङ्गिणः विष्णोः स्वप्नाय = स्वापाय "स्यान्निद्रा शयनं स्वापः स्व-नः संवेशः” इत्यमरः। रसायाः पृथिव्याः तलमिति रसातलं तस्मात् रसातलात् = पाताललोकात् उन्मग्नम् = उत्थितं शेषम् = अनन्तम् शेषनागमित्यर्थः इत्र = यथा स्थितम् । “अनन्तः केशवे शेषे पुमान्" इति कोषः। सीयते = बध्यते इति सेतुस्तं सेतुम् = आलिम् “सेतुरालौ पुमान्" इत्यमरः। बन्धयामास = बन्धयति स्म । प्लवगाः सेतुं बध्नन्ति स्म, तान् रामः प्रेरयति स्म रामः प्लवगै: सेतुं बन्धयति स्म । समासः-लवणम् अम्भः यस्य स लवणाम्भाः, तस्मिन् लवणाम्भसि । रसायाः तलम् रसातलं तस्मात् रसातलात् । हिन्दी-रामने खारे समुद्रपर वानरों को लगाकर ( प्रेरितकर ) पुल बन्धवाया। वह ऐसा प्रतीत हो रहा था मानों विष्णु को अपने ऊपर सुलाने के लिये पाताल लोक से शेषनाग हो ऊपर आ गये हो ॥ ७० ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy