SearchBrowseAboutContactDonate
Page Preview
Page 952
Loading...
Download File
Download File
Page Text
________________ — रघुवंशे स्वर्गिणः पितुनिंदेशादपाक्रष्टुं निवर्तयितुमशक्यं तं रामं पश्चाद्राज्याधिदेवते स्वामिन्यौ कर्तु पादुके ययाचे ॥ अन्वयः--स्वर्गिणः पितुः निदेशात् अपाक्रष्टुम् अशक्यं तम् , पश्चात् राज्याधिदेवते कर्तु पादुके ययाचे। __ व्याख्या--स्वर्गः अस्यास्ति भोग्यत्वेन स स्वर्गौ तस्य स्वर्गिणः = ब्रह्मलोकं गतस्य पितुः = जनकस्य निदेशात् = शासनात् आशया इत्यर्थः “निदेशः शासनं च सः। शिष्टिश्चाज्ञा च" इत्यमरः । अपाक्रष्टुं =निवर्तयितुम् अशक्यं तं रामं = ज्येष्ठभ्रातरं पश्चात् = तदनु राज्यस्य = अयोध्याराज्यस्य अधिदेवते = प्रधानस्वामिन्यौ कतु = विधातुं पादुके = उपानही ययाचे =प्रार्थयामास । “अथ पादुका । पादूरुपानत्स्त्री" इत्यमरः। समासः-न शक्यः अशक्यस्तम् अशक्यम् । राज्यस्य अधिदेवते राज्याधिदेवते ते । हिन्दी--अपने स्वर्गीय पिता की आशा से जरा भी न हटने वाले ( टस से मस न हुये ) राम से तब भरतजी ने अयोध्या के राज्य की प्रधानदेवता बनाने के लिये खड़ाऊँ मांगी। अर्थात् आप की चरणपादुका को राजगद्दी पर रखकर मैं राज्य का काम चलाऊँगा। अतः पादुका दे दोजिये । ऐसा भरतजी ने राम से कहा ।। १७ ॥ स विसृष्टस्तथेत्युक्त्वा भ्रात्रा नैवाविशत्पुरीम् । नन्दिग्रामगतस्तस्य राज्यं न्यासमिवाभुनक् ॥ १८ ॥ स भरतो भ्रात्रा रामेण तथेत्युक्त्वा विसृष्टः सन् पुरीमयोध्यां नाविशदेव । किंतु नन्दिआमगतः संस्तस्य रामस्य राज्यं न्यासमिव निक्षेपमिवाभुनगपालयत् । न तूपभुक्तवानित्यर्थः । अन्यथा 'भुजोऽनवने' इत्यात्मनेपदप्रसङ्गात् भुजेर्लङ् ।। __ अन्वयः--सः भ्राता तथा इति उक्त्वा विसृष्टः सन् , पुरी न एव अविशत् । “किन्तु" नन्दिग्रामगतः सन् तस्य राज्यं न्यासम् इव अभुनक् । व्याख्या-सः भरतः भ्राजते इति भ्राता तेन भ्रात्रा =रामेण तथा = एवमस्तु इति = एवम् उक्त्वा = कथयित्वा विसृष्टः = परावर्तितः सन्। पुरोम् =अयोध्यानगरी नाविशत् = नैव प्रविष्टः किन्तु नन्दनं नन्दिः चासौ ग्रामः इति नन्दिग्रामस्तत्र गतः = प्राप्तः सन् , तस्य = ज्येष्ठभ्रातुः न्यासं = निक्षेपम् इव = यथा अभुनक् = रक्षितवान् न तु स्वयमुपभुक्तवान् । भ्रातुः निक्षेपत्वात् तस्य रक्षणमेव वरं न तूपभोग इति भावः। समासः--नन्दिश्चासौ ग्रामः नन्दिग्रामः । नन्दिग्रामे गतः नन्दिग्रामगतः । हिन्दी--अच्छा ऐसा ही सही ( खड़ाऊँ देकर ) यह कहकर बड़े भाई श्रीराम से लौटा दिये जाने पर भरतजी, अयोध्या नगरी में नहीं ही गये। किन्तु नन्दिग्राम में रहकर भाई के राज्य की उसी प्रकार रक्षा की. जैसे कि धरोहर की रक्षा की जाती है। विशेष–महाकवि ने भुजधातु से परस्मैपद किया है अतः पालन करना न कि भोग करना, भरतजी का धर्म दिखाया है। यदि राज्य भोग करना होता तो आत्मनेपद का प्रयोग होता ॥ १८॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy