SearchBrowseAboutContactDonate
Page Preview
Page 953
Loading...
Download File
Download File
Page Text
________________ द्वादशः सर्गः ७९ दृढभक्तिरिति ज्येष्ठे राज्यतृष्णापराङ्मुखः । मातुः पापस्य भरतः प्रायश्चित्तमिवाकरोत् ॥ १९ ॥ ज्येष्ठे दृढभक्ती राज्यतृष्णापराङ्मुखो भरत इति पूर्वोक्तानुष्ठानेन मातुः पापस्य प्रायश्चित्तं तदपनोदकं कर्माकरोदिव इत्युत्प्रेक्षा। दृढभक्तिरित्यत्र दृढशब्दस्य 'स्त्रियाः पुंवत्'--इत्यादिना पुंवद्भावो दुर्घटः। 'अप्रियादिषु' इति निषेधात् । भक्तिशब्दस्य प्रियादिषु पाठात् । अतो दृढं भक्तिरस्येति नपुंसकपूर्वपदो बहुव्रीहिरिति गणव्याख्याने दृढभक्तिरित्येवमादिषु पूर्वपदस्य नपुंसकस्य विवक्षितत्वात्सिद्धमिति समाधेयम् । वृत्तिकारश्च दोघनिवृत्तिमात्रपरो दृढभक्तिशब्दो लिङ्गविशेषस्यानुपकारकत्वात् स्त्रीत्वमविवक्षितमेव, तस्मादस्त्रोलिङ्गत्वादृढभक्तिशब्दस्यायं प्रयोग इत्यभिप्रायः। न्यासकारोऽप्येवम् । भोजराजस्तु—कर्मसाधनस्यैव भक्तिशब्दस्य प्रियादिपाठाद्भवानीभक्तिरित्यादौ कर्मसाधनत्वात् पुंवद्भावप्रतिषेधः, दृढभक्तिरित्यादौ भावसाधनत्वात् पुंवद्भावसिद्धिः पूर्वपदस्येत्याह ।। अन्वयः-ज्येष्ठे दृढभक्तिः राज्यतृष्णापराङ्मुखः भरतः इति मातुः पापस्य प्रायश्चित्तम् अकरोत् इव । व्याख्या-अतिशयेन प्रशस्त इति ज्येष्ठस्तस्मिन् ज्येष्ठे = अग्रजे रामे दृढं = स्थिरा= प्रबला भक्तिः= प्रेम यस्य स दृढभक्तिः राज्यस्य तृष्णा = स्पृहा, इति राज्यतृष्णा । तरयाः पराङ्मुखः = विमुखः, इति राज्यतृष्णापराङ्मुखः भरतः इति=इत्थं पूर्वोक्तकारणेन मातुः = कैकेय्याः पापस्य=किल्विषस्य, दुष्कृतस्येत्यर्थः प्रायस्य पापस्य चित्तं = विशोधनं यस्मात् स तं 'प्रायः पापं समुद्दिष्टं चित्तं तस्य विशोधनमिति स्मरणात् प्रायश्चित्तम् = पापनिष्कृतिमित्यर्थः अकरोदिव = कृतवान् इवेत्युत्प्रेक्षायाम् । समासः-दृढं भक्तिर्यस्य स दृढभक्तिः। राज्यस्य तृष्णा राज्यतृष्णा, राज्यतृष्णायाः पराङ्मुख इति राज्यतृष्णापराङ्मुखः । प्रायस्य चित्तं यस्मात् स प्रायश्चित्तस्तं प्रायश्चित्तम् ।। हिन्दी-बड़े भाई में अतिशय भक्ति अनुराग वाले और इसीलिये राज्य करने की इच्छा को ठुकराने वाले भरत जी ने मानो अपनी माता के पाप का प्रायश्चित्त कर डाला हो। विशेष—व्याकरण के अनुसार भक्ति शब्द का प्रियादिगण में पाठ है। अतः पुंवद्भाव न होकर दृढाभक्ति प्राप्त है। किन्तु पदसंस्कार पक्ष में दृढ़ शब्द को सामान्यपरक रखकर नपुंसक लिंग मानकर दृढं भक्तिः यस्य समास हो जायगा। भक्ति शब्द के साथ अन्वय करने पर भी नपुंसकत्व रहेगा ॥ १९ ॥ रामोऽपि सह वैदेह्या वने वन्येन वर्तयन् । चचार सानुजः शान्तो वृदेक्ष्वाकुव्रतं युवा ॥ २० ॥ सानुजः शान्तो रामोऽपि वैदेह्या सह वने वन्येन वनभवेन कन्दमूलादिना वर्तयन् वृत्ति कुर्वजीवन्वृद्धक्ष्वाकूणां व्रतं वनवासात्मकं युवा यौवनस्थ एव चचार ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy