SearchBrowseAboutContactDonate
Page Preview
Page 932
Loading...
Download File
Download File
Page Text
________________ ५८ रघुवंशे अन्वयः-भीमदर्शने भार्गवे एवम् उक्तवति राघवः स्मितविकम्पिताधरः सन् , तद्धनुग्रहणम् एव समर्थम् उत्तरं प्रत्यपद्यत । व्याख्या-बिभेत्यस्मादिति भीमं = भयंकर दर्शनम् = अवलोकनं यस्य स तस्मिन् भीमदर्शने। “घोरं भीमं भयानकम् । भयंकरं प्रतिभयम्' इत्यमरः। भृगोरपत्यं पुमान् भार्गवस्तस्मिन् भार्गवे = परशुरामे, एवं = पूर्वोक्तप्रकारेण उक्तवति = कथितवति सति । राघवः = श्रीरामचन्द्रः स्मितेन = ईषद्धासेन विकम्पितौ = वेपथुयुक्तौ = किंचिच्चलितावित्यर्थः । अधरौ= ओष्ठौ यस्य स विकम्पिताधरः सन् तस्य = प्रख्यातस्य धनुषः = चापस्य ग्रहणं = हस्तेनादानमित्यर्थः। इति तत् तद्धनुर्ग्रहणम् एव = केवलम् समर्थम् = उचितम् उत्तरं = प्रतिवचनं प्रत्यपद्यत = स्वीचकार । न तु मुखेन किंचिदपि उक्तवानित्यर्थः । स्मितलक्षणं यथा = 'ईषद्विकम्पितैदन्तैः कटाक्षैः सौष्ठवान्वितैः । अलक्षितद्विजद्वारमुत्तमानां स्मितं भवेत्" इति । समासः-भीमं दर्शनं यस्य सः तस्मिन् भीमदर्शने। स्मितेन विकम्पितौ अधरौ यस्य स तथोक्तः । तस्य धनुषः ग्रहणमिति तत् तद्धनुर्ग्रहणम् । हिन्दी-भयंकर दीखने वाले परशुरामजी के इस प्रकार कहने पर रामचन्द्र जी ने परशुराम के धनुष को ले लेना ही अच्छा योग्य उत्तर माना। मुस्कुराने से राम जो के ओठ जराजरा हिल रहे थे। अर्थात् हँसते-हँसते राम ने वाणी से कुछ न कहकर धनुष को हाथ में ले लिया ॥ ७९ ॥ पूर्वजन्मधनुषा समागतः सोऽतिमात्रलघुदर्शनोऽभवत् । केवलोऽपि सुभगो नवाम्बुदः किं पुनस्त्रिदशचापलान्छितः ॥ ८॥ पूर्वजन्मनि नारायणावतारे यद्धनुस्तेन स मागतः संगतः स रामोऽतिमात्रमत्यन्तं लघुदर्शनः प्रियदर्शनोऽभवत् । तथाहि । नवाम्बुदः के वलो रिक्तोऽपि सुभगः त्रिदशचापेनेन्द्रधनुषा लाञ्छितश्चिह्नितः किं पुनः । सुभग एवेति भावः ।। ___ अन्वयः-पूर्वजन्मधनुषा समागतः सः अतिमात्रल घुदर्शनः अभवत् । “तथाहि" नवाम्बुदः केवलः अपि सुभगः, त्रिदशचापलाञ्छितः किं पुनः। ___ व्याख्या--पूर्वञ्च तत् जन्म पूर्वजन्म, तस्मिन् पूर्वजन्मनि = नारायणावतारे यत् धनुः = चापं तेन पूर्वजन्मधनुषा समागतः=संगत : सः= दाशरथिः रामः मात्रा = स्तोकं तामतिक्रान्तमिति अतिमात्रम् = अत्यधिकं लघु = मनोज्ञं प्रियमित्यर्थः दर्शनम् == अवलोकनं यस्य सः अतिमात्रलघुदर्शनः अभवत् = जातः । “ल घुरगुरौ च मनोज्ञे निःसारे वाच्यवत् क्लीबम् ।" इति मेदिनी। तथाहि युक्तमेतत्--अम्बू नि = जलानि ददाति इति अम्बुदः। नवः= नूतनश्चासौ अम्बुदः= मेघः नवाम्बुदः केवलः = रिक्तः = जलरहितोऽपि इत्यर्थः सुभगः = सुन्दरः भवति । तित्रः जन्मसत्ताविनाशाख्याः दशाः = अवस्थाः यस्य स त्रिदशः = इन्द्रः तस्य चापं = धनुः तेन लाञ्छितः= चिह्नितः = युक्त इत्यर्थः । किम् पुनः= किं कथनम् अर्थात् परमसुन्दर एव भवतीति भावः । चपस्य = वशविशेषरय विकारः चापमिति व्युत्पत्तिः । समासः--पूर्वञ्च तज्जन्म पूर्वजन्म । पूर्वजन्मनि यत् धनुः, तेन पूर्वजन्मधनुषा । मात्रामतिक्रान्तमिति अतिमात्रम् । अतिमात्रं लघु दर्शनं यस्य सः अतिमात्रलघुदर्शनः । नवश्चासौ
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy