SearchBrowseAboutContactDonate
Page Preview
Page 931
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः "प्रधनं युधि दारणे” इति हैमः। एवमपि = मम धनुष्कर्षणेऽपि-अहं = परशुरामः, तरत्यनेन इति तरः । “तरो जवे बले” इति हैमः। तुल्यं = समानं बाह्वोः = भुजयोः तरः = बलं यस्य स तेन तुल्यबाहुतरसा त्वया =रामचन्द्रेण जितः = पराजितः । समासः-शरेण सहितं सशरम् । तुल्यं बाह्वोः तरः यस्य स तेन तुल्यबाहुतरसा। हिन्दी-इस लिये "हे राम !” मेरे इस धनुष पर डोरी चढाकर, बाणसहित खीचो। अर्थात् तान दो। युद्ध अभी रहे। क्योंकि इस प्रकार मेरे धनुष के तानने पर भी, मेरे समान बाहुबलवाले तुम से मैं हार गया, ऐसा मानलूगा ।। ७७।। कातरोऽसि यदि वोद्गतार्चिषा तर्जितः परशुधारया मम । ज्यानिघातकठिनाङ्गलिवृथा बध्यतामभययाचनाञ्जलिः ॥ ७८ ॥ यदि वोद्गताचिषोद्गतत्विषा मम परशुधारया तर्जितः कातरोऽसि भीतोऽसि । वृथा ज्यानिघातेन कठिना अङ्गुलयो यस्य स तथोक्तोऽभययाचनाञ्जलिरभयप्रार्थनाअलिर्बध्यताम् । 'तौ युतावञ्जलिः पुमान्' इत्यमरः॥ अन्वयः-यदि वा उद्गतार्चिषा मम परशुधारया तर्जितः कातरः असि वृथा ज्यानिघातकठिनांगुलिः अभययाचनाञ्जलिः बध्यताम् । व्याख्या–यदि वा = अथवा उद्गता = निर्गता अर्चिः = त्विट् यस्याः सा तया उद्गतार्चिषा प्रादुर्भूतकिरणया, इत्यर्थः । मम =जामदग्न्यस्य = परशुरामस्य परं = शत्रु शृणाति = हिनरतीति परशुः = कुठारस्तस्य धारा = तीक्ष्णाग्रम् , तया परशुधारया तर्जितः =भीतः सन् कातरोऽसि = अधीरोऽसि व्याकुलचित्तोऽसीत्यर्थः । “कुठारः स्वधितिः परशस्तु परश्वधः" 'अधीरे कातरः' इतिचामरः। वृथा = व्यर्थम् ज्यायाः = धनुर्गुणरय निघातः = अभिघातरतेन कठिनाः = कठोराः अंगुलयः = कर शाखाः यस्य स ज्यानिघातकठिनांगुलिः । अभयस्य = निर्भयस्य याचना=प्रार्थना तस्यै अञ्जलिः = हस्तसम्पुटमिति अभययाचनांजलिः बध्यतां = ग्रथ्यताम् । “अञ्जलिस्तु पुमान् हस्तसम्पुटे" इति मेदिनी। समासः--उद्गता अचिः यस्याः सा तया उद्गताचिषा । परशोः धारा परशुधारा तया परशुधारया । ज्यायाः निघातः ज्यानिघातस्तेन कठिनाः अंगुलयो यस्य स ज्यानिघातकठिनांगुलिः । अभयस्य याचनाथै अञ्जलिरिति अभययाचनाञ्जलिः । हिन्दी-अथवा यदि तुम मेरे फरसे की चमकती तेज धार से डर कर घबरा गये हो, तो अपने उन हाथों को जोड़कर अभय की भिक्षा माँगो, जिन हाथों की अंगुलियाँ धनुषकी डोरी को रगड़ से व्यर्थ हो कठोर हो गयी हैं । अर्थात् जिनमें घट्टे पड़ गये हैं ॥ ७८ ॥ एवमुक्तवति भीमदर्शने भार्गवे स्मितविकम्पिताधरः । तद्धनुर्ग्रहणमेव राघवः प्रत्यपद्यत समर्थमुत्तरम् ॥ ७९ ॥ भीमदर्शने भार्गव एवमुक्तवति राघवः स्मितेन हासेन विकम्पिताधरः सन् । तद्धनु हणमेव समर्थमुचितमुत्तरं प्रत्यपद्यताङ्गीचकार ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy