SearchBrowseAboutContactDonate
Page Preview
Page 933
Loading...
Download File
Download File
Page Text
________________ एकादशः सर्गः ५९ अम्बुदः नवाम्बुदः। तिस्रः दशा यस्य स त्रिदशस्तस्य चापं तेन लाञ्छितः इति त्रिदशचापलाञ्छितः। हिन्दी--अपने पिछले जन्म के धनुष से मिले हुये, ( धनुष को हाथ में लेकर ) श्रीरामचन्द्र जी अतीव सुन्दर लगने लगे। "ठीक ही है--क्योंकि" नया-नया बादल अकेला भी सुन्दर लगता है और फिर इन्द्रधनुष से सुशोभित हो तो उसकी सुन्दरता का क्या कहना है ॥ ८० ॥ तेन भूमिनिहितैककोटि तत्कार्मुकं च बलिनाधिरोपितम् । निष्प्रभश्च रिपुरास भूभृतां धूमशेष इव धूमकेतनः ॥ ८१ ॥ बलिना तेन रामेण भूमिनिहितैका कोटिर्यस्य तत् कर्मणे प्रभवतीति कार्मुकं धनुश्च । 'कर्मण उकञ्' इत्युकञ्प्रत्ययः। अधिरोपितम् । भूभृतां रिपुर्भार्गवश्च । धूमशेषो धूमकेतनोऽग्निरिव । निष्प्रभो निस्तेजस्क आस बभूव । आसेति तिङन्तप्रतिरूपकमव्ययं दीप्त्यर्थकस्यास्ते रूपं वा । अन्वयः-बलिना तेन भूमिनिहितैककोटि तत् कामुकम् अधिरोपितम् , भूभृतां रिपुः च धूमशेषः धूमकेतन इव निष्प्रभः आस । ___ व्याख्या-बलमस्यारतीति बली तेन बलिना = शौर्यवता तेन = रामेण कोटयते अनया सा कोटिः। भूमौ = पृथिव्यां निहता = स्थापिता एका = केवला कोटि: =अटनी यस्य तत् भूमिनिहितैककोटि । “कोटिरस्याटनी" इत्यमरः। कर्मणे प्रभवति यत् तत् तत् = प्रसिद्धं, तस्य = भार्गवस्य वा कार्मुकं = धनुश्च परशुरामस्य चापमित्यर्थः । अधिरोपितम् = अधिज्यीकृतम् । भुवं बिभ्रति = पालयन्ति इति भूभृतस्तेषां भूभृतां = नृपाणां रिपुः = शत्रुः परशुरामः। “भूभृद्भ - मिधरे नृपे" इत्यमरः। च, धूनोति, धूयते वा स धूमः = शिखिध्वजः-शेषः = अवशिष्टः यस्मिन् स धूमशेषः आनॆन्धनप्रभवमात्रः धूमः = खतमालः केतनं = चिह्नं यस्य स धूमकेतनः = अग्निः इव = यथा निर्गता प्रभा = कान्तिः = तेजः यस्य स निष्प्रभः आस = बभूव-जात इत्यर्थः। धूमपर्यायाः "भाभो मरुद्वाहः खतमालः शिखिध्वजः, अग्निवाहस्तरी" इति त्रिकाण्डशेषः । - समासः-भूमौ निहिता एका कोटिः यस्य तत् भूमिनिहितैककोटि। निर्गता प्रभा यस्य स तथोक्तः । प्रभायाः निष्क्रान्तः इति वा निष्प्रभः। धूमः शेषः यस्मिन् स धूमशेषः। धूमः केतनं यस्य स धूमकेतनः। हिन्दी-पराक्रमी राम ने, जमीन में रखे एक सिरे ( एक छोर ) वाले उस धनुषपर डोरी-चढा दी और राजाओं (क्षत्रियों ) के शत्रु परशुरामजी उस-अग्नि के समान प्रभाहीन हो गये, जिसमें केवल धूवां भर रह गया हो। अर्थात् धनुषके सिरे को पृथ्वी में रखकर जैसे ही रामने डोरी खींचकर चढाई वैसे ही परशुरामजी निस्तेज हो गये। भगवान् के दूसरे अवतारहोने पर पहले अवतार की कला क्षीण हो जाती है ॥ ८१ ॥ तावुभावपि परस्परस्थितौ वर्धमानपरिहीनतेजसौ । पश्यति स्म जनता दिनात्यये पार्वणौ शशिदिवाकराविव ॥ ८२ ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy