SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ २६५ रघुवंशमहाकाव्ये संजी०-कुसुमेति । आदौ कुसुमजन्म । ततो नवपल्लवाः । तदनु । 'अनुर्लक्षणे' (पा. १।४।८४ ) इति कर्मप्रवचनीयत्वाद् द्वितीया, यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम् । इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य द्रुमवती द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त आविरभूत् ! केषांचिद् द्रुमाणां , पल्लवप्राथम्यात्केषांचिन्कुसुमप्राथम्यान्नोक्तक्रमस्य दृष्टविरोधः ॥२६॥ अन्वयः-"प्रादौ" कुसुमजन्म ततः नवपल्लवाः तदनु षटपदकोकिलकूजितम् इति यथाक्रमं दुमवती वनस्थलीम् अवतीर्य मधुः प्राविरभूत् । व्याख्या-वसन्तागमनप्रकारं कथयति कविः। आदौ कुस्यन्ति संश्लिष्यन्तीति कुसुमानि-पुष्पाणि तेषां जन्म आविर्भावः इति कुसुमजन्म ततः अनन्तरम् पल्यन्ते पलः लूयन्ते इति लवाः पलश्च ते लवाः पल्लवाः नवा:-नूतनाश्च ते पल्लवाः किसलयानि इति नवपल्लवाः आविर्भूताः। तदनु-उभयानन्तरम् षट् पदानि येषां षटपदाः भ्रमराः कोकिला:-पिकाः षटपदाश्च कोकिलाअति षटपदकोकिलास्तेषां एवं प्रकारेण क्रममनतिक्रम्येति यथाक्रमम्, द्रवति ऊर्ध्वमिति द्रुः। द्रुः = शाखा अस्पास्तीति द्रुमः-वृक्षः । द्रुमः अस्याः अस्तीति द्रमवती तां द्रुमवती वनस्य-अरण्यस्य स्थली-अकृत्रिमा भूमिस्तां वनस्थलीम् अवतीर्य आगत्य मधुः वसन्तः प्राविरभूत् = प्रकटो जातः।। समासः-कुसुमानां जन्म कुसुमजन्म। नवाश्च ते पल्लवाः नवपल्लवाः । षटपदाश्च कोकिलाश्चेति षट्पदकोकिलास्तेषां कूजितमिति षट्पदकोकिलकूजितम् । द्रुमाः सन्ति यस्याः सा द्रुमवती तां द्रुमवतीम् । वनस्य स्थली तां वनस्थलीम् । हिन्दी-पहले फूलों का जन्म हुआ ( फूल खिले ) अनन्तर नई नई कोपलें निकलीं, इन दोनों के पश्चात् भौंरे और कोयलों का शब्द होने लगा, इस प्रकार क्रम से वृक्षों वाली वनस्थली में उतरकर वसन्त प्रकट हुआ। किसी वृक्ष में प्रथम पत्ते आते हैं और किसी में पुष्प आते हैं, अतः क्रम में कोई दोष नहीं है ॥२६॥ नयगणोपचितामिव भूपतेः सदुपकारफलां श्रियमर्थिनः । अभिययुः सरसो मधुसंभृतां कमलिनीमलिनीरपत्रिणः ॥२७|| संजी०-नयेति । नयो नीतिरेव गुणः । तेन । अथवा,-नयेन गुणः
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy