SearchBrowseAboutContactDonate
Page Preview
Page 703
Loading...
Download File
Download File
Page Text
________________ २६५ नवमः सर्गः शौर्यादिभिश्चोपचिताम् । सतामुपकारः फलं यस्यास्तां सदुपकारफलां भूपतेर्दशरथस्य श्रियमर्थिन इव । मधुना संभृतां सम्यक्पुष्टां सरसः संबन्धिनी कमलिनी पद्मिनीमलिनीरपतत्रिणः । अलयो भृङ्गाः। नीरपतत्रिणो जलपतत्रिणो हंसादयश्च अभिययुः ॥२७॥ अन्वयः-नयगुणोचितां सदुपकारफलां भूपतेः श्रियम् अर्थिनः इव मधुसंभृतां सरसः कमलिनीम् अलिनीरपतत्रिणः अभिययुः । व्याख्या-नयनं नयः गुण्यते-मंत्र्यते इति गुणः । नया-नीतिः एव गुणः शौर्यादिः तेन उपचिता-वर्धिता तां नयगुणोपचिताम् । नयेन-नीत्या गुणैः = शौर्यादिभिश्च उपचिता-वर्धिता तामिति वा नयगुणोपचिता तां तथोक्ताम् । सतां सजनानाम् उपकारः उपकृतिः फलं-प्रयोजनं यस्याः सा तो सदुपकारफला भुवः पतिः भूपतिस्तस्य भूपतेः दशरथस्य श्रियं लक्ष्मीम् अर्थिनः याचकाः इव यथा मधुना वसन्तेन संभृता-सम्यक पुष्टा तां मधुसंभृताम् सरसः तडागस्य सरःसंवन्धिनीमित्यर्थः कमलमस्यास्तीति सा, तां कमलिनी पद्मिनीम् अलयः भ्रमरा: नीरस्य जलस्य पक्षिणः-हंसादयः इति अलिनीरपतत्रिणः अभिययुः-सम्मुखं जग्मुः । - समासः-नयः एव गुणस्तेन उपचिता तां नयोपचिताम् । नयेन गुणश्च उपचिता तां नयोपचिताम् । सताम् उपकारः फलं यस्याः सा तां सदुपकारफलाम् । भुवः पतिः तस्य भूपतेः । मधुना संभृता मधुसंभृता तां मधुसंभृताम् । नीरस्य पतत्रिणः नीरपतत्रिणः, अलयश्च नीरपतत्रिणश्च अलिनीरपतत्रिणः । हिन्दी-नीति रूपी गुणों से या नीति और पराक्रमादि गुणों से बटोरी हुई तथा सजनों का उपकार करना जिसका प्रयोजन है ऐसे राजा दशरथ की लक्ष्मी को जैसे मांगने वाले घेरे रहते थे, उसी प्रकार, वसन्त ऋतु से खूब बढ़ी हुई तालाब की कमलिनी के भौंरे और हंस चारों तरफ से मण्डराने लगे।।२७॥ कुसुममेव न केवलमातवं नवमशो कलगः स्मरदीपनम् । किसलयप्रसवाऽपि विलासिनां मदयित्ता दयनाश्रवणापितः ।।२८।। संजी०-कुसुममिति । ऋतुरस्य प्राप्त आर्तवम् । 'ऋतोरण' (पा. ५।१।१०५) इत्यण । नवं प्रत्यग्रमशोकतरोः केवलं कुसुममेव स्मरदीपनमुद्दीपनं न ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy