SearchBrowseAboutContactDonate
Page Preview
Page 701
Loading...
Download File
Download File
Page Text
________________ नवमः सर्गः ___२६३ जिगमिषुर्धनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः । दिनमुखानि रविहिमनिग्रहै विमल यन्मलयं नगमत्यजत् ।।२५॥ संजी०-जिगमिषुरिति । धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छुः । रथयुजा सारथिनारुणेन परिवर्तितवाहनो निवर्तिताश्वो रविः । हिमस्य निग्रहैर्निराकरगर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत् । दक्षिणां दिशमत्याक्षीदित्यर्थः ॥२५।। __ अन्वयः-धनदाध्युषितां दिशं जिगमिषुः रथयुजा परिवर्तितवाहनः रविः हिमनिग्रहैः दिनमुखानि विमलयन् मलयं नगम् अत्यजत् । __ व्याख्या-धनं वित्तं दयते-पालयतीति धनदः । धनदेन कुबेरेण अध्युषिता अधिष्ठिता सेविता तां धनदाध्युषिताम् दिशति अवकाशमिति दिक तां दिशं= काष्ठाम् उत्तरां दिशमित्यर्थः गन्तुमिच्छति जिगमिषति, जिगमिषतीति जिगमिषु:गन्तुमिच्छुः रथं युनक्ति इति रथयुक् तेन रथयुजा-सारथिना अरुणेनेत्यर्थः वहन्ति . एभिस्तानि वाहनानि । परिवर्तितानि-निवर्तितानि वाहनानि-प्रश्वाः यस्य स परिवर्तितवाहनः रूयते-स्तूयते रविः-सूर्यः हिमस्य-तुषारस्य निग्रहाः-निराकरणानि तैः हिमनिग्रहैः दिनस्य मुखानि दिनमुखानि-प्रभातानि विमलयन् विशदीकुर्वन्= प्रकाशयनित्यर्थः। मलते-धरति चन्दनादिकमिति मलयस्तं मलयं, न गच्छतीति नगस्तं नगम्=मलया-चलम् अत्यजत्-प्रत्याक्षीत् । दक्षिणदिशं परित्यज्य उत्तराशां गत इत्यर्थः। समासः-धनदेन अध्युषिता तां धनदाध्युषिताम् । परिवर्तितानि वाहनानि यस्य स परिवर्तितवाहनः। दिनानां मुखानि दिनमुखानि । हिमस्य निग्रहास्तैः हिमनिग्रहैः । हिन्दी-कुबेर से पालित उत्तर दिशा में जाने की इच्छा वाले, तथा रथचालक अरुण ने जिनके घोड़ों को घुमा दिया ऐसे सूर्य ने पाला हटाकर प्रातःकाल को स्वच्छ प्रकाशमान करते हुए मलय पर्वत को छोड़ दिया। अर्थात् सूर्य दक्षिणायन से उत्तरायण हो गये ॥२५॥ कुसुमजन्म ततो नवपल्ल वास्तदनु षटपदकोबिलकूजितम् । इति यथाक्रममाविरभून्मधुमवतीमवतीर्य वनस्थलीम् ॥२६।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy