SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ २३३ अष्टमः सर्गः अन्वयः-अवितथसूनृतेन तेन सुनोः बालत्वात, प्रियायाः सादृश्यप्रति. कृ तदर्शनैः स्वप्नेषु क्षणिकसमागमोत्सवैश्च कथंचित् अष्टौ समाः परिगणिताः । व्याख्या-विगतं सत्यं यस्मात् तत् वितथं न वितथमिति अवितथम् । सुष्ठ नृत्यन्ति अनेनेति सूनृतम् । अवितर्थ-सत्यं सूनृतं प्रियवचनं यस्य स तेन अवितथसूनृतेन तेन अजेन सूयते इति सूनुस्तस्य सूनोः-पुत्रस्य, बालस्य भावः बालत्वं तस्मात् बालत्वात् -माणवकत्वात् राज्यभारवहनं कर्तुमशक्यत्वादित्यर्थः । प्रियायाः इन्दुमत्याः, समान इव पश्यतीति सदृशस्तस्य भावः सादृश्यं, प्रकृष्टा कृतिः, प्रतिनिधेः कृतिर्वा प्रतिकृतिः । सादृश्यं साम्यं प्रतिकृतिः = प्रतिच्छाया -चित्रमित्यर्थः । इति सादृश्यप्रतिकृती तयोः दर्शनानि = अवलोकनानि तैः सादृश्यप्रतिकृतिदर्शनः स्वप्नेषु स्वापेषु क्षणिका:-क्षणभंगुराः ये समागमाः = संयोगाः ते एव उत्सवाः -महांसि तैः क्षणिकसमागमोत्सवः स्वप्नसंमिलनानन्ददमांगलिकरित्यर्थः कथंचित् कष्टेन अष्टौ अष्टसंख्यकाः समाः = संवत्सराः परिगमिताः अतिवाहिताः व्यतीता इत्यर्थः । समासः अवितथं सूनृतं यस्य स तेन अवितथसूनृतेन । सादृश्यं च प्रतिकृतिश्चेति सादृश्यप्रतिकृती तयोः दर्शनानि तैः सादृश्यप्रतिकृतिदर्शनः । क्षणिकाः ये समागमाः त एव उत्सवाश्चेति क्षणिकसमागमोत्सवास्तैः क्षणिकसमागमोत्सवैः। हिन्दी-सत्य एवं प्रिय बोलने वाले अज ने, पुत्र दशरथ के बालक होने के कारण ( राजकार्य सम्भालने के अयोग्य होने से ) प्यारी इन्दुमती के समान आकार वाली वस्तुनों, तथा उसके चित्रों को देखकर और स्वप्न में क्षणभर के संयोग तथा आनन्दों से किसी प्रकार आठ वर्ष बिता दिये ॥१२॥ तस्य प्रसह्य हृदयं किल शोकशङ्कः लक्षप्ररोह इव सौधतलं बिभेद । प्राणान्तहेतुमपि तं भिषजामसाध्यं ___ लाभं प्रियानुगमने त्वरया स मेने ॥९॥ संजी०--तस्येति । शोक एव शङकुः कीलः । 'शकुः कीले शिवेऽस्त्रे च' इति विश्वः। तस्याजस्य हृदयम् । प्लक्षप्ररोहः सौधतलमिव । प्रसह्य बलात्किल
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy