SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये बिभेद । सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङकु रोगपर्यवसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने । तद्विरहस्यातिदुःसहत्वात्तत्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ॥९३॥ सन्वयः-शोकशंकुः तस्य हृदयं प्लक्षप्ररोहः सौधतलम् इव प्रसह्य विभेद किल, सः प्राणान्तहेतुम् अपि भिषजाम् असाध्यं तं प्रियानुगमने त्वरया लाभं मेने । व्याख्या-शंकते अत्मादिति शंकुः । शोकः-प्रियाभरणदुःखन् एव शंकुः= कोलः इति शोकशंकुः, तस्य =अजस्य ह्रियते विषयैरिति हृदय हरति अाहरति विषयान् इति वा हृदयं चित्तं प्रक्षरतोति प्लक्षः । प्लक्षति अधो गच्छतीति प्लक्षः । प्लक्षस्य बटवृक्षस्य प्ररोहः-अंकुरः इति प्लक्षप्ररोहः सुधा लेपोऽस्यास्तीति सौधं, सौधस्य-राजभवनस्य तलम् अवः-अधोभागः तत् सौधतलम् इव-यथा प्रसह्य= बलात् बिभेद-विदीर्णवान् किल-प्रसिद्धम् । सः अजः प्राणन्ति एभिरिति प्राणाः । प्राणानाम् असूनामन्तः-मरणमिति प्राणान्तस्तस्य हेतुः कारणं तं प्राणान्तहेतुम् अपि भिषजां वैद्यानां न साध्यमसाध्यम् अचिकित्स्यम्-अप्रतिसमाधेयं तं शोकशंकू रोगपर्यवसितमित्यर्थः । प्रियायाः- इन्दुमत्याः अनुगमने-मरणे त्वरया-उत्कठया लाभं फलं मेने-मन्यते स्म । इन्दुमतीविरहदुःखस्य सोढुमशक्यत्वात् परलोके तत्प्राप्तिकारणं लघु मरणमेव श्रेष्ठममन्यत इत्यर्थः । समासः -शोकः एव शंकुरिति शोकशंकुः । प्लक्षस्य प्ररोहः प्लक्षप्ररोहः । सौधस्य तलं तत् पौधतलम् । प्राणानाम् अन्तः प्राणान्तस्य हेतुस्तं प्राणान्तहेतुम् । न साध्यः असाध्यस्तमसाध्यम् । प्रियायाः अनुगमनमिति प्रियानुगमनं तस्मिन् प्रियानुगमने। हिन्दी-शोकरूपी काण्टे ने, अज के हृदय को बलपूर्वक उसी प्रकार बेध दिया, जैसे कि बड़ की जटा भवन के तल को छेद देती है। परन्तु उस अज ने प्राण लेनेवाले तथा वैद्यों से अच्छा न होनेवाले उस शोकरूपी काँटे को, प्रिया के पीछे मरने में जल्दी से लाभ ही माना। अर्थात् अज ने प्रिया के वियोग में दुःख भोगने की अपेक्षा मरना ही अच्छा समझा ॥१३॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy