SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अन्वयः-सः उदारमतेः विनेतुः बचः तथा इति प्रतिगृह्य मुनि विससर्ज 'किन्तु' तत् शोकघने हृदि अलब्धपदं सत् अस्य गुरोः अन्तिकं प्रतियातम् इव । व्याख्या-सः-- अजः उच्चैः यारामन्तात् ऋच्छतीति उदारा, उदीयते इति वा उदारा । उदारा-सरला मतिः-द्धियः ष स तस्य उदारमतेः विशिष्टं नयति विनेता तस्य विनेतुः गुरोः वसिष्ठस्य वचः = वचनं वसिष्ठशिष्येण कथितमित्यर्थः तथा-तेन प्रकारेण इति प्रतिगृह्य-स्वीकृत्य मुनि - वसिषु शिष्यं विससर्ज :विसर्जितवान् किन्तु तत्-वचः शोकेन-दुःखेन घनं = सान्द्र=निरन्तरमित्यर्थः इति शोकघनं तस्मिन् शोकघने अस्य -अजस्य हृदि हृदये, न लब्धपदं सत् गुरोः- वसिष्ठस्य अन्तिकसमीपं प्रतियात प्रतिनिवृत्तं- परावृत्तमित्र-किमु इति उत्प्रेक्षालंकारः । समामः--उदारा मतिर्यस्य स उदारमतिस्तस्य उदारमतेः । शोकेन धनं तस्मिन् शोकघने । न लब्धं पदं येन तत् अलब्धपदम् । हिन्दी--उस अज ने सरल बुद्धिवाले शिक्षक गुरुजी के वचन को ( उनके शिष्य के मुख से कहा गया ) अच्छा ठीक है। इस प्रकार स्वीकार करके मुनि वसिष्ठ शिष्य को लौटा दिया। किन्तु वह वचन ( उपदेश ) शोक से भरे हुवे अज के हृदय में स्थान न प्राप्त करके मानो लौट गया। अर्थात् शोकातुर अज के हृदय में जगह न मिलने से मानो गुरुजी के पास ही चला गया ।।९१॥ तेनाष्टौ परिगमिताः समाः कचिबालत्वादवितथसूनृतेन सूनोः। सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ।।१२।। संजी०–तेनेति । अवितथं यथार्थ सूनृतं प्रियवचनं यस्य तेनाजेन। सूनोः पुत्रस्य बालत्वात् । राज्याक्षमत्वादित्यर्थः । प्रियाया इन्दुमत्याः सादृश्यं वस्त्वन्तरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः । स्वप्नेषु क्षणिकाः क्षणभङगुरा ये समागमोत्सवास्तैश्च । कथंचित् कृच्छ्रेरण। अष्टौ समग वत्सराः । 'संवत्सरो वत्सरो. ऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः । परिगमिता अतिवाहिताः । उक्तं च-वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवतां स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः ॥' इति । प्रकृते सादृश्यादित्रितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्ट रप्युपलक्षणम् । प्रहर्षिणी वृत्तमेतत् ॥१२॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy