SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ ४६ रघुवंशमहाकाव्ये भकरयोरपि' इति विश्वः । सशब्दं सघोषं बृहतस्तरङ्गान्भिन्दन्विदारयस्तीराभिमुखः स गजः, वारी गजबन्धनस्थानम् 'वारी तु गजबन्धनी' इति यादवः । वार्या अगलाया विष्कम्भम्य भङ्गे भञ्जने प्रवृत्त इव वभौ ॥४५॥ अन्वयः-संहारविक्षेपलघुक्रियेण हस्तेन, सशब्द", वृहतः, तरङ्गान् , भिन्दन् , तीराभिमुखः, स. वार्यगलाभङ्गे, प्रवृत्तः, इव, बभौ । बाच्य-भिन्दता तीराभिमुखेन तेन वायंगलाभङ्गे प्रवृत्तेन हर बभे । भ्याख्या-संहारः = सङ्कोचः, च विक्षेपः = प्रसारणम् , च, संहासंवदेने लघ्वी = अल्पीयसी, क्रिया = व्यापारः, यस्य सः लघुक्रियः । संहारविक्षेपयोः लघुक्रियः इति संहारविक्षेपलघुक्रियः, तेन सहारविक्षेपलघुक्रियेण । हस्तेन = शुण्डादण्डेन । मशब्दम् = ध्वनिसहितं यथा स्यात्तथा । वृहतः = विपुलान् । तरङ्गान= वीचीः। भिन्दन् = विदारयन् । तीरस्य = तटस्थ, अभिमुखः संमुखः इति, तीराभिमुखः । स = गजः, वार्याः-गजबन्धन्याः, "वारी तु गजबन्धनी" इति यादवः । भर्गला = प्रतिबन्धः, इति वार्यगंला, वार्यर्गलायाः भङ्गः - भञ्जनम् , इति वार्य लाभङ्गः, तस्मिन् वार्यर्गलामङ्गे । प्रवृत्तः = लग्नः । इव-यथा । बभौ-शुशुभे । समा--संहारश्च विक्षेपश्च संहारविक्षेपौ संहारविक्षेपयोः लध्वी क्रिया यस्य सः संहारविक्षेपलघुक्रियः। तेन संहारविक्षेपलघुक्रियेण | तीरस्य अभिमुखः तीराभिमुखः । वार्या अर्गला वार्यगला । वायर्गलायाः भङ्ग इति वार्यगलाभङ्गः । तस्मिन् वार्यर्गलाभङ्गे। ____ अभि०-तीराभिगमनेच्छुः भ गजः स्वीयशुण्डादण्डस्य संकोचेन प्रसारणेन न शब्दपूर्वकं तरङ्गान्विदारयन् गजबन्धनशृङ्खलाया भञ्जने लग्न इवाशोभत । हिन्दी-तट की ओर आता हुआ वह हाथी, अपनी सूंड़ को सिकोड़ते तथा फैलाते हुए शब्द के साथ तरङ्गों को छिन्न-भिन्न करता हुआ, बाँधने की शृङ्खला को तोरने में लगा हुआ सा जान पड़ता था ॥४५॥ शैलोपमः शैवलमञ्जरीणां जालानि कर्षन्नुरसा स पश्चात् । पूर्वं तदुत्पीडितवारिराशिः सरित्प्रवाहस्तटमुत्ससर्प ॥४६॥ सञ्जीविनी-शैलोपमः सः गजः शैवलमञ्जरीणां जालानि वृन्दान्युरसा कर्षन्पश्चात्तटमुत्ससर्प । पूर्व तेन गजेनोत्पीडितो उन्नो वारिराशियस्य स सरिप्रवाहस्तटमुत्ससर्प ॥४६॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy