SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये विशालता' इत्यमरः। रघुर्वपुषः प्रकर्षादाधिक्यायौवनकृताद् गुरुं पितरमजयत् । तथापि विनयान्नम्रत्वेन नीचैरल्पकोऽदृश्यत । अनेनास्यानौद्धत्यं च विवक्षितम् ॥ ३४ ॥ ___ अन्वयः--युवा युगव्यायतबाहुः अंसलः कपाटवक्षाः परिणद्ध कन्धरः, रघुः वपुःप्रकर्षात् ,गुरुम् अजयत् , तथापि, विनयाद् , नीचैः अदृश्यत । वाध्य०-यूना रघुणा गुरुः अजीयत तथापि विनयात् 'जनास्तं' नीचेः अपश्यन् । गयाख्या-युवा = तरुणः, यौवनसम्पन्न इत्यर्थः । युगवत् =यानाङ्गदारुविशेषवत्, व्यायती दीघौं, बाहू = भुजौ यस्य स युगव्यायतबाहुः । अंसौ स्तः अस्य सोऽसलः = मांसलः । कपाटवत् = कपाटतुल्यं वक्षः उरःस्थलं यस्यासौ कपाटवक्षाः ‘कपाटमररं तुल्ये' इत्यमरः । परिणद्धा = विशाला, कन्धरा ग्रीवा यस्य स परिणद्ध कन्धरः, रघुः = दिलीपपुत्रः । वपुषःशरीरस्य, प्रकर्षः = आधिक्यं, तस्मात् । वपुःप्रकर्षात् । गुरुं = पितरं दिलीपम् , अजयत् = जितवान् । तथापि विनयात् = नम्रतया, नीचैः= अल्पकः , जनकापेक्षया न्यन इत्यर्थः, अदृश्यत - ददृशे जनैरिति शेषः। समा०-युगवद् व्यायतौ बाहू यस्य सः युगव्यायतबाहुः। अंसो अस्य स्तः इति अंसलः। कपाटमित्र वक्षः यस्य सः कपाटवक्षाः। परिणद्धा कन्धरा यस्य सः परिणद्ध कन्धरः । वपुषः प्रकर्षः वपुःप्रकर्षः, तस्मात् वपुःप्रकर्षात् । अभि०-यद्यपि रघुः दीर्घबाहुः कपाटवत् विस्तृतोरस्थलो मांसलो बलांश्च जातः, तथापि विनम्रतया स्वननकापेक्षया स्वल्पकः बालक इव दृश्यते स्म । हिन्दी-जवानो के कारण रघु की भुजाएँ बैल के जुए के समान दृढ़ और लम्बी हो गई, वक्षस्थल किवाड़ की तरह चौड़ा हो गया। कन्धे भारी तथा गरदन विशाल हो गई, इस तरह डीलडौल बढ़ जाने पर रघु अपने वृद्ध पिता से लम्बे तथा बलिष्ठ लगते थे, फिर भी नमता के कारण पिता के सामने छोटे ही दीख पड़ते थे ॥ ३४ ॥ ततः प्रजानां चिरमात्मना वृतां नितान्तमुवी लघयिष्यता धुरम् । निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥ ३५ ॥ संजीविनी--तत आत्मना चिरं धृतां नितान्तगुवीम् 'वोतो गुणवचनात्' इति ङीष् । प्रजानां धुरं पालनप्रयासं लघयिष्यता लघ करिष्यता। 'तत्करोति तदाचष्टं' इति लघशव्दापिणच् । ततो 'लुटः सद्वा' इति शतृप्रत्ययः । नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः। युवराज इति शब्दं भजतीति तथोक्तः । 'भजो ण्विः' इति विप्रत्ययः। चक्रे कृतः। 'द्विविधो विनयः स्वभाविकः कृत्रिमश्च' इति कौटिल्यः। तदुभयसंपन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः। कामन्दक:--'विनयोपग्रहान्भूत्यै कुर्वीत नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते। विनोतमौरसं पुत्रं यौवराज्येऽभिषेचयेत् ॥' इति ।। ३५ ॥ अन्वयः-ततः आत्मना, चिरं ता, नितान्तगुर्वीम्, प्रजानां, धुरं, लघयिव्यता, नृपेण, असो, निसर्गसंस्कारः, इति युवराजशब्दमाक चक्रे ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy