SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः वाच्य०--धुरं लघयिष्यन् नृपोऽमुं निसर्गसंस्कार विनोतमिति युवराजशब्दभाजं चकार । व्याख्या-ततः = अनन्तरम् । आत्मना = स्वेन, चिरं=बहुकालपर्यन्तं, धृतां = धारितां । नितान्तम् = अत्यन्तं, गुवों=दुर्भरां, तां नितान्तगुर्वीम् । प्रजानां = लोकानां, धुरं-भारं = पालनरूपं । लघु करिष्यन्निति लघयिष्यन् , तेन लघयिष्यता, लघु करिष्यता, नृपेण = दिलीपेन । असौ रघः। निसर्गेण = स्वभावेन संस्कारेण = शास्त्राभ्यासजनितवासनया च, विनीतः = विनम्रः इति निसर्गसंस्कारविनीतः । इति = हेतोः युवा चासो राशा च इति युवराजः, तस्य शब्दं भजती युवराजशब्दभाक् = युवराजनामा, चक्रे = कृतः। समा०- नितान्तं गुीं नितान्तगुर्वी, तां नितान्तगुर्वीम् । लघु करिष्यतीति लघयिष्यति, लघयिष्यतीति लपयिष्यन् , तेन लपयिष्यता । निसर्गश्च संस्कारश्च निसर्गसंस्कारी, निसर्गसंस्काराभ्यां विनीतः निसर्गसंस्कारविनीतः । युवा चासो राजा च युवराजः, युवराजस्य शब्दः युवराजशब्दः, युवराजशब्दं भजति इति युवराजशब्दभाक् । अभि०-राजा दिलीपः, स्वभावेन शास्त्राभ्यासेन चातीव ननं राजकायें च दक्षम् , कुमारं रघुयुवराज कृतवान् । हिन्दी-इसके अनन्तर बहुत दिनों से धारण किये हुए, प्रजा के पालन रूपी भार को हल्का करने की इच्छा से राजा दिलीप ने 'स्वभाव तथा शास्त्रों के अभ्यास से रघु नम्र हो गए हैं और भलीभाँति राज्य सम्भाल सकते हैं' यह जानकर रघु को युवराज बना दिया ॥ ३५ ॥ नरेन्द्र मूलायतनादनन्तरं तदास्पदं श्रीयुवराजसंज्ञितम् । अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ ३६ ॥ . संजीविनी-गुणान्विनयादीन्सौरभ्यार्दीश्वाभिलषतीति गुणाभिलाषिणी श्रीः राज्यलक्ष्मीः पद्माश्रया च । नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात् । अपादानात् । अनन्तरं संनिहितम् । युवराज इति संशाऽस्य संजाता युवराजसंशितम् । तारकादित्वादितच्प्रत्ययः । आत्मनः पदं स्थानमास्पदम् । 'आस्पदं प्रतिष्ठायाम्' इति नियातः । स रघुरित्यास्पदं तदास्पदम् । कमलाच्चिरोत्पन्नान्नवावतारमचिरोत्पन्नमुत्पलमिव । अंशेनागच्छत् । स्त्रियो हि यूनि रज्यन्त इति भावः ॥३६॥ अभ्वयः-गुणाभिलाषिणी, श्रीः नरेन्द्रमूलायतनाद् , अनन्तरं, युवराजसंशित, तदास्पदं, कमलात् , नवावतारम् उत्पलम् , इव, अंशेन, अगच्छत्। वाच्य०-गुणाभिलाषिण्या श्रिया अंशेनागम्यत । व्याख्या-गुणान् = विनयादीन् सौरभ्यादींश्च, अभिलषति = अभिकांक्षतीति गुणाभिलाषिणी। श्रीः= राज्यलक्ष्मीः ; 'पद्मालया च'। नरेन्द्रः = दिलीपः, एव मूलं =प्रधानम् , आयतनं-स्थानं, तस्मात् नरेन्द्रमूलायतनाद् । अनन्तरम् = संनिहितम् । युवराज इति संश संजाताऽस्येति तत् युवराजसंशितम् = युवराजनामधेयम् । आत्मनः पदं स्थानमिति आस्पदं । सः= रघुः एव आस्पदं = प्रतिष्ठा यस्य तत् तदास्पदं । कमलात=चिरोत्पन्नात् पद्मात् । नवः=
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy