SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ २९ तृतीयः सर्गः कोच्यते। तदुक्तं मनुना-केशान्तःषोडशे वर्षे ब्राह्मणस्य विधीयते। राज्यन्यवन्धो विशे वश्यमा दयधिके ततः ॥' इति । अथ गुरुः पिता। 'गुरुगीष्पतिपित्रादो' इत्यमरः । अस्य गोदानविधेरनन्तरं विवाहदोसा निरवर्तयत् । कृतवानित्यर्थः। अथ नरेन्द्रकन्यास्तं रघुम् । दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव । 'तमोनुदोऽग्निचन्द्रार्का' इति विश्व: । सत्पतिमवाप्यावमुः। रघुरपि तमोनुत् । अत्र मनु:-'वेदानधीत्य वेदी वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचयों गृहस्थाश्रममाविशेत्' इति ॥ ३३ ॥ _ अन्वयः-अय, गुरुः अस्य,गोदानविधेः, अनन्तरं,विवाहदीक्षा, मिरवर्तयत्, नरेन्द्रकन्थाः, तं, दक्षताः तमोनुदम् इव, सत्पतिम् , अवाप्य, आवभुः । वाच्य०-अथ गुरुपा विवाहढीक्षा निरवत्त्यंत, नरेन्द्रकन्याभिः दक्षमुताभिरिव आवमे । व्याख्या-अथ = यौवनप्रवेशानन्तरं गुरुः = पिता दिलीपः । अस्य = रपोः। गावः= केशाः, दीयन्ते -खण्ड्यन्तेऽस्मिन् कर्मपि तत् गोदानं, गोदानस्य = केशान्तकर्मणः, विधिः = अनुष्ठानं, तस्य गोदानविधेः, अनन्तरं = पश्चात् । विवाहस्य = पाणिग्रहणस्य, दीक्षा = क्रिया, तां विवाहदीक्षा निरवर्तयत् = कृतवान् । नरेन्द्रापां = मनुष्येश्वरायां, कन्याः= कुमार्यः इति नरेन्द्र कन्याः। तं रघु, दक्षस्य =प्रजापतेः, कन्याः-रोहिण्यादयः, इति दक्षकन्याः, इति दक्षकन्याः, । तमः = अन्धकार, नुदति- नाशयतीति तमोजुत् , तं तमोनुदं = चन्द्रम् । इव%= यथा। संश्चासौ पतिश्चेति सत्पतिस्तं सत्पतिम् , सज्जनपतिम् , अवाप्य = प्राप्य, भावमुःशुशुमिरे। समा-गावः-(केशाः ) दीयन्ते (खण्डयन्ते ) अस्मिन्निति गोदानम् , गोदानस्य विधिः गोदानविधिः, तस्य गोदानविधेः। विवाहस्य दीक्षा विवाइदोमा, तां विवाहदीक्षाम् । नराणामिन्द्राः नरेन्द्राः, नरेन्द्राणां कन्याः नरेन्द्रकन्याः। दक्षस्य मुताः दक्षताः । तमः नुदतीति तमोनु, तं तमोनुदम् । सन् चासौ पतिश्च सत्पतिः, तं सत्पतिम् । अमि०-राजा दिलीपः, दाविंशे वर्षे केशान्तनामकं संस्कारं विधाय पश्चात् नरेन्द्रकन्यामिः सह रघोविगाहमपि कारितवान् । हिन्दी-जवान होते ही, राना दिलीप ने रघु का पाईसवे वर्ष में केशान्त संस्कार करके रामकुमारियों के साथ विवाह भी कर दिया। वे राजकुमारियाँ भी सज्जन रघु जैसे प्रतापी पति को प्राप्त करके वैसे ही मुशोमित हुई जैसे रोहिणी भादि दक्ष प्रजापतिकी कन्याएँ अन्धकार को भगानेवाले चन्द्रमा को प्राप्त कर सुशोमित हुई थीं ॥ ३३ ॥ युवा युगन्यायववाहुरंसलः कपाटवक्षाः परिणद कन्धरः । वपुःप्रकर्षादजयद् गुरुं रघुस्तथाऽपि नीचैर्विनयाददश्यत ॥ ३४ ॥ संजीविनी-युवा। युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः । 'यानाचा गुगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः। युगवल्यायतौ दोषों बाहू यस्य सः। अंसावस्वस्त इत्यंसलो बलवान् । मांसलश्चेति' वृत्तिकारः। 'पलवान्मांसलोंऽसलः' इत्यमरः। 'वत्सांसाम्बा कामपले' इति लच्पत्ययः । कपाटवक्षाः परिणद्धकंपरो विशालग्रीवः । 'परिणाहो
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy