SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ सृतीयः सर्गः २५ अन्वयः-वृत्तचूलः, "सन्" सः, पलकाकपक्षकैः, सवयोमिः, अमात्यपुत्रैः, मन्वितः, "सन्" लिपेः, यथावद् , ग्रहणेन, वाल्मथ, नदीमुखेन, समुद्रम् , इव, माविशत् । पाच्य-वृत्तचूलेन तेनान्वितेन सता समुद्र इव वाङ्मयम् , आविश्यत । व्याख्या-वृत्ता=निष्पन्ना, चूला = चूडाकर्म यस्य स वृत्तचूलः “सन्" सः रघुः, चलाः = चन्नलाः, काकपक्षकाः = शिखण्डका येषान्ने, तैः चलकाकपक्षकैः, समानतुल्यं, वयः = अवस्था येषान्ते, तेः सवयोभिः, स्निग्धैरित्यर्थः। अमात्याना = मन्त्रिणां, पुत्राः= सुता इति, अमात्यपुत्रास्तैः अमात्यपुत्रैः, अन्वितः = सहितः, “सन्"। लिपेः = वर्णमालायाः यथावद् = सम्यक्तया। ग्रहणेन = बोधेन ज्ञानेनेत्ययः। वाङ्मयं = शम्दनातं शास्त्रमित्यर्थः, नद्याः सरितः, मुखंदारं, तेन नदोमुखेन "मकरादिरिति शेषः" समुद्र=सागरम् , इव= यथा, आविशत् - प्रविवेश, मकरादिः समुद्रं प्रविष्टः, रघुः शास्त्रं ज्ञातवानित्यर्थः। समा०- वृत्ता चूला यस्य सः इतचुलः । चलाः काकपक्षाः येषां ते चलकाकपक्षकाः तै: चलकाकपक्षकः। समानं वयः येषां ते सवयसः, तैः सवयोभिः। अमा ‘सह समीपे वा' मवन्तीति अमात्याः, अमात्यानां पुत्राः अमात्यपुत्राः, तैः अमात्यपुत्रैः । प्रचुरा वाक वाङ्मयं, तत् वाङ्मयम् । नयाः मुखं नदीमुखम् , तेन नदीमुखेन । अमि०-पथा मकरादिः नदोहारेण महासागरं प्रविशति एवं निष्पन्नचूडाकर्मा रघुरपि स्निग्धैर्मन्त्रिपुत्रैः सह लिपिशिक्षणेन समस्तवाङ्मयं शातवानिति भावः । हिन्दी-मुण्डन संस्कार हो जाने पर रघु ने चम्बल शिखावाले समान अवस्थावार मन्त्रिपुत्रों के साथ अच्छी प्रकार से वर्णमाला सीख ली, फिर उसी प्रकार समस्त साहित्य में प्रवेश कर लिया जिस प्रकार मकर नदी के द्वारा महासागर में घुस जाता है ॥ २८ ॥ अथोपनीतं विधिवद्विपश्चि तो चिनिन्युरेनं गुरवो गुरुप्रियम् । अवन्ध्ययत्नाश्च बभूवुरत्र ते क्रिया हि वस्दपहिता प्रसीदति ॥ २९ ॥ सम्जीविनी--"गर्भाष्टमेऽन्दे कुर्वीत ब्राह्मणस्योपनायनम् । गर्भादेकादशे राशो गर्माज द्वादशे विशः ।।" इति मनुस्मर प्यादथ गर्भकादशेऽन्दे विधिवदुपनीतं गुरुप्रियमेनं रघु विपश्चितं विद्वांसो गुरवो विनिन्युः शिक्षितवन्तः । ते गुरवोऽत्रास्मिन् रघाववन्ध्ययत्नाश्च बभूवुः । तथ हि क्रिया शिक्षा 'क्रिया तु निष्कृतौ शिक्षाचिकित्सोपायकर्मसु' इति यादवः । वस्तुनि पात्रभू उपहिता प्रयुक्ता सती प्रसीदति फलति । 'क्रिया हि द्रव्यं विनयति नाद्रव्यम्' इति कौटिल्यः॥२९ __ अन्वयः-अथ, विधिवत् , उपनीतं, गुरुप्रियम् , एनं, विपमितः, गुरव विनिन्युः, ते, अत्र, अवन्ध्ययरमाः, च, बभूवुः, हि, क्रिया, वस्तूपहिता प्रसीदति वाच्य०-उपनीतः गुरुप्रियः एष विपश्चिद्भिर्गुरुभिविनिन्ये, तैरवन्ध्ययत्नैश्च बभूवे, f क्रियया वस्तूपहितया प्रसद्यते। व्याख्या-अथ = अनन्तरं । विधिमहतीति विधिवत् =विधिपूर्वकम् , उपनीतं कृतयशं
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy