SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये पवीतसंस्कारम् । गुरूणां शिक्षकाणां प्रियः= प्रीतिकर स्तं गुरुप्रियं, एनं रघु । विपश्चितः= विद्वांसः, गुरवः शिक्षकाः । विनिन्युः = शिक्षितवन्तः । ते= गुरवः । अत्र रघुविषये । अवन्ध्यः =सफलः, यत्नः= प्रयासः, येषां ते अवन्ध्ययत्नाः । बभूवुः-जाताः । हि == यतः, क्रिया= शिक्षा, वस्तुनि=सत्पात्रे, उपहिता=प्रयुक्ता, प्रसीदति = फलति । समा०-गुरूणां प्रियः 'गुरुप्रियः, तं गुरुप्रियम् । न वन्ध्यः अवन्ध्यः, अवन्ध्यः यत्नः येषां ते अवन्ध्ययत्नाः । वस्तुान उपाहता वस्तूपाहता। अभि०-कृतयज्ञोपवीतसंस्कारं रघु विद्वासो गुरवः शिक्षितवन्तः, ते च गुरवः सत्पात्रं रघुमध्याप्य सफलप्रयत्नाः सजाताः। हिन्दी-विधिपूर्वक यज्ञोपवीत संस्कार हो जाने पर विद्वान् गुरुओं ने रघु को पढ़ाया, और वे गुरुजन रघु के विषय में सर्वथा सफल प्रयत्नवाले हुए, उचित ही है कि सत्पात्र को प्रदान की गई शिक्षा विशेष फलवती होती है ।।६।। धियः समप्रैः स गुणैरुदारधीः क्रमाञ्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिगिर्हरितामिवेश्वरः ॥ ३० ॥ सीविनी-अत्र कामन्दकः-'शुश्रूषा श्रवणं चैत्र ग्रहणं धारणं तथा । ऊहापोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः' इति । 'आन्वीक्षिकी त्रयी वार्ता दण्डनीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः' इति च । उदारधीरुत्कृष्टबुद्धिः स रघुः समधियो गुपः । चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः 'तद्धितार्थोत्तरपदसमाहारे च' इत्युत्तरपदसमासः। चतस्रो विद्याः । हरितां दिशामीश्वरः सूर्यः। पवनातिपातिभिह रिद्भिनिजाश्वः । 'हरित्ककुमि वणे च तृणवाजिविशेषयोः' इति विश्वः । चतस्रो दिश इव क्रमात्ततार । चतुरणेवोपमेयत्वं दिशामपि द्रष्टव्यम् ।। अन्वयः--उदारधीः, सः,समग्रैः धियः, गुणः,चतुरर्णवोपमाः,चतस्त्रः,विद्याः, हरिताम् , ईश्वरः, पवनातिपातिमिः, हरिद्भिः, 'चतस्रः' दिशः इव क्रमात् ततार। वाच्य०--उदारधिया तेनेश्वरेणेव क्रमात् तेरिरे। व्याख्या-उदारा= उत्कृष्टा, धीः=बुद्धियस्यासौ उदारधीः, सः रघुः । समग्रेः= सम्पूर्णेः, धियः = बुद्धः, गुणेः= शुश्रषाश्रवणादिभिः । चत्वारः= चतुःसंख्यकाः अर्थवाः= समुद्राः, उपमा= तुलना यासा ताश्चतुरर्णवोपमास्तास्तथोक्ताः । चतस्रः = चतुःसंख्यकाः, विद्याः = आन्वीक्षिक्यादीः ! हरिता = काष्ठानां दिशामित्यर्थः, ईश्वरः = प्रभुः सूर्यः । पवनमतिक्रम्य पतितुं शीलं येषान्ते पवनातिपातिनस्तैः पवनातिपातिभिः = अनिलाधिकवेगशीलः, हरिद्भिः = निजाश्वः। 'चतस्रः' दिशः= आशाः, इव = यथा, क्रमात् = क्रमेण, ततार = उत्तीर्णः। चतस्रो विद्या अप्यधीतवान् । समा०-उदारा धीर्यस्य स उदारधीः। चत्वारः अर्णवाः उपमा यासां ताः चतुरर्णवोपमाः, ताः चतुरर्णवोपमाः । पवनमतिक्रम्य पतितुं शीलं येषां ते पवनातिपातिनः, तैः पवनातिपातिभिः ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy