SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये अभि०--राज्ञो दिलीपस्य पुत्रोत्पत्तिमहोत्सवे केवलं राजभवने एव गीतवाद्यादिक न जातम् , किन्तु तद्वालकस्य देवांशत्वात् , आकाशेऽपि गन्धर्वाः वादित्राणि वादयाञ्चक्रुः, नर्तक्यश्चानन्दातिरेकात् ननृतुः । हिन्दी-राजा दिलीप का वह बालक तो संसार का कल्याण करनेवाला था, इस लिये उसके जन्म लेने पर केवल मागधी के पति राजा दिलीप के ही राजमहल में मनोहर बाजे तथा वेश्याओं के नाच-गाने आदि उत्सव नहीं हो रहे थे, किन्तु आकाश में देवताओं के यहाँ भी नाच-गाना हो रहा था ॥ १९ ॥ न संयतस्तस्य बभूव रक्षितुर्विसर्जयेयं सुतजन्महर्षितः । ऋणाभिधानात्स्वयमेव केवलं तदा पितृणां मुमुचे स बन्धनात् ॥ २० ॥ संजीविनी-रक्षितुः सम्यक्पालनशीलनस्य तस्य दिलीपस्य तस्य दिलीपस्य । अत एव चौराद्यभावात् । संयतो बद्धो न बभूव नाभूत् । किं तेनात आह विसर्जयेदिति । सुतजन्मना हर्षितस्तोषितः सन् । यं बद्धं विसर्जयेद्विमोचयेत् । किं तु स राजा तदा पितृपामृणाभिधानाद् बन्धनात्केवलमेकं यथा तथा । वयमेव । एक एवेत्यर्थः। 'केवलः कृत्स्न एकश्च केवलश्चावधोरिता' इति शाश्वतः । मुमुचे । कर्मकर्तरि लिट् । स्वयमेव मुक्त इत्यर्थः। अस्मिन्नर्थे--'एष वा अनृणो यः पुत्री' इति श्रुतिः प्रमाणम् ॥ २० ॥ अन्वयः--रक्षितुः तस्य, संयतः न बभूव, यं, सुतजन्महर्षितः, 'सन्' विसर्जयेत्, सः, पितृणां ऋणाभिधानात्, बन्धनात्, केवलं, स्वयं, मुमुचे ।। वाच्य०-संयतेन न बभूवे, सुतजन्महषितेन यो विसृज्येत, किन्तु तेन तदा स्वयं मुमुचे। व्याख्या-रक्षितुः = पालकस्य, तन्य =दिलीपस्य । संयतः = बद्धः कश्चित् , कारागारे इति शेषः । न = नहि, बभूव = आसीत् । सुतस्य = पुत्रस्य, जन्म = उत्पत्तिः, तेन हर्षितः = प्रसन्नस्तुष्टः, “सन्" यं बद्धं, विसर्जयेत् = विमोचयेत् । “किन्तु" सः= राजा दिलीपः । तदा= तस्मिन्नुत्सवे, पितृणां = पर लोकगतानाम् , ऋणम् = पर्युदन्चनं, अभिधानं = नाम यस्य तत् , ऋणाभिधानं. तस्मात्, ऋणाभिधानात् = बन्धनात् = संयमनात । केवलम् एकं. स्वयं = आत्मा, एवं मुमुचे = मुक्तः। समा०-सुतस्य जन्म सुतजन्म, सुतजन्मना हर्षितः सुतजन्महषितः । ऋणमित्यभिधानं यस्य तत् ऋणाभिधानम् , तस्मात् ऋपाभिधानात् । अभि०-सम्यक् पालयितुस्तस्य दिलीपरय राज्ये चौराद्यभावात् कश्चिदपि कारागारे बद्धो नासीत् यं बद्धमस्मिन् काले हर्षेण मोचयेत् , किन्तु तदा पितणामृणात् स्वयमेव मुमुचे। हिन्दी--राजकुमार का जन्म होने पर बन्दीघरों से कंदी छोड़े जाते हैं, किन्तु राजा दिलीप के राज्य में सुव्यवस्था होने से कोई भी अपराध नहीं करता था, अतः राज्य में कोई कैदी भी नहीं था, जिसे वे पुत्रजन्म की प्रसन्नता में छोड़ते। इसलिये राजा ही पुत्र न होने से पितरोंके ऋण से बँधा था उस बन्धन से मुक्त हो गया ॥ २० ॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy