SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः १९ श्रुतस्य यायादयमन्तम कस्तथा परेषां युधि चेति पार्थिवः । अवेक्ष्य धातोर्गमनार्थमर्थविच्चकार नाम्ना रघुमात्मसंमवम् ॥ २१ ॥ संजीविनी-बालकः श्रुतस्य शास्त्रस्यान्तं पारं यायात् । तथा युधि परेषां शत्रूषामन्तं पारं च यायात् । यातुं शक्नुयादित्यर्थः । “शकि लिङ् च" इति शक्याथै लिङ् । इति हेतोर्धातोः 'अधिवधिलघि गत्यर्थाः" इति लघिधातोर्गमनाख्यमर्थमर्थवित्त्वादवेक्ष्यालोच्य । प्रात्मसंभवं पुत्रं नाम्ना रघु चकार । “लपिबंडोनलोपश्च" इत्यप्रत्ययये “बालमूललध्धलमङ्गुलीनां वा लो रत्वमापद्यते” इति वैकल्पिके रेफादेशे रघुरिति रूपं सिद्धम् । अत्र शङ्खः-'अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते।' इति ॥ २१ ॥ __ अन्वयः-अर्थवित्, पार्थिवः, अयम्, अर्मकः, श्रुतस्य अन्यं, यायात्, तथा युधि, परेषाम् “अन्तं" च यायात्, इति, धातोः, गमनार्थम्, अवेक्ष्य, आत्मसंभवं, नाम्ना, रघु, चकार । वाच्य०--अर्थविदा पार्थिवेन, अर्भकेण श्रुतस्यान्तो यायेत, आत्मसंभवो नाम्ना रघुः चक्र। न्याख्या-अर्थम् =अभिधेयं, वेत्ति जानातीति, अर्थवित् । पृथिव्या ईश्वरः पार्थिवः= दिलीप: । अयम् =एषः, अर्भकः बालकः “पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः" इत्यमरः, श्रुतस्य = शास्त्रस्य, अन्तं पारं, यायात् = गच्छेत् , तथा = तेन प्रकारेण, युधि%3D संग्रामे । परेषा = शत्रूणाम , अन्तं नाशं च यायात् गच्छेत् , इति =हेतोः । धातोः= लघिधातोः गमनमेवार्थः गमनार्थस्तं गमनार्थ=यानाभिधेयम् , अवेक्ष्य = विचार्य । आत्मनः= स्वस्मात् , सम्भवः = उत्पत्तिर्यस्य सः तमात्मसंभवं, तनयं पुत्रं, "आत्मजस्तनयः सूनुः सुतः पुत्रः" इत्यमरः । नाम्ना=अमिधानेन, रघु =रघुनामानं, चकार - कृतवान् । समा०-अर्थ वेत्तीति अर्थवित् । पृथिव्या ईश्वरः पार्थिवः । गमनस्य अर्थः गमनार्थः तं गमनाथम् । लङ्घते इति रसुः । आत्मनः सम्भवो यस्य स आत्मसम्भवः, तमात्सम्भवम् । अभि०-अर्थशो राजा दिलीपः अयं बालकः श्रुतस्य पारं गमिष्यति तथा शत्रूणां विनाशको भविष्यतीति विचार्य लंघते इति रघुरिति अन्वर्थ नाम चकार। हिन्दी-शब्दार्थ को जाननेवाले राजा दिलीप ने यह बालक सम्पूर्ण शास्त्रों में पारंगत होगा तथा शत्रुओं का युद्ध में नाश करेगा, अत एव 'लघि' धातु का गति अर्थ समझकर रघु नाम रक्खा ॥ २१॥ पितुः प्रयत्नास समग्रसम्पदः शुभैः शरीरावयवैर्दिने दिने । पुपोष वृद्धि हरिदश्वदीधितेरनुप्रवेशादिव बालचन्द्रमाः ॥ २२ ॥ सम्जीविनी-स रघुः समग्रसंपदः पूर्णलक्ष्मीकस्य पितुर्दिलीपस्य प्रयत्नाच्छुभैमनोहरैः शरीरावयवैः । हरिदश्वदीधितेः सूर्यस्य रश्मेः । “भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्परश्मयः" इत्यमरः । अनुप्रवेशाद् बालचन्द्रमा इव । दिने दिने प्रतिदिनम् । “नित्यवीप्सयोः" इति दिर्व
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy