SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ १६ रघुवंशमहाकाव्ये अन्वय:--निवातपस्तिमितेन, चक्षुषा, कान्तं, सुताननं, पियतः, नृपस्य, गुरुः, प्रहर्षः, इन्दुदर्शनात "गुरुः' महोदधेः पूरः, इव, आत्मनि, न बिभूव । वाय--गुरुणा प्रहर्षेण गुरुणा महोदधेः पूरेण इन न प्रबभूवे । व्याख्या --निवाते = वायुरहितपदेशे, पन = कमलं, तद्वत् स्तिमितं -- निश्चलं, तेन चक्षा नेण, कान् : मनोहरं, सुन्दरं, मुतस्य = पुत्रस्य, आननं = मुखं, पिवतः = अतितृणया ५ तः, नृपरथ - राज्ञो दिलीपस्य । गुरु:-महानित्यर्थः, प्रहर्षः = अतिशयितानन्दः { को )। इन्दोः= चन्द्ररय दर्शनम् == अवलोकनं, तस्मात् इन्दुदर्शनात , गुरुः = महान् , महांश्चासो दधिरिति महोदशिस्तस्य महोदधेः- समुद्रस्य, पूरः-- जलोवः, श्व = यथा । आत्मनि = शरीरे, न= नहि, प्रबभूव = स्थातुं शशाक, अन्तर्न माति स्मेति यावत् । समा०--निवाते पनं निवातपद्मम् , निवातपद्ममिन स्तिमितं निवातपमस्तिमितम् , तेन निवातपरिमितेन । सुतस्य आननं मुताननम् , तत् सुताननम् । इन्दोः दर्शनम् , इन्दुदर्शनम्, तस्मात् इन्दुदर्शनात् । महाश्चासौ उदधिश्च महोदधिः, तस्य महोदधेः। अभि-राजा दिलीपः सुन्दरं स्वपुत्राननमतितृष्णया पश्यन् पूर्णिमायामिन्दुदर्शनात जलधेः पूर इव अवीवानन्दपरिपूर्णः प्रसन्नचेता बभूव । हिन्दी-जैसे वायुरहित स्थान में कमल निश्चल हो जाता है वैसे ही एक टक होकर राला अपने पुत्र का सुन्दर मुख देखने लगे। जैसे चन्द्रमा को देखकर महासागर में ज्वार आ जाता है, वैसे ही पुत्र को देखकर राजा का इतना भानन्द हुआ कि वह उनके हृदय में न समा सका ॥ १७॥ स जातकर्मण्यखिले तपस्विना तपोवनादेत्य पुरोमसा कृते । दिलीपसूनुर्मणिराकरोद्भवः प्रयुक्तसंस्कार इवाधिकं बमो॥ १८॥ सब्जीविनी-स दिलीपसू नुः । तपस्विना पुरोधसा पुरोहितेन । 'पुरोधास्तु पुरोहितः' इत्यमरः । वसिष्टेन । तपस्वित्वात्तदनुष्ठितं कर्म सवीर्य स्यादिति भावः। तपोवनादेत्यागत्य । अखिले समय जातकर्मणि जातस्य कर्तव्यसंस्कार-विशेषे कृते सति । प्रयुक्तः संस्कारः शापोल्लेखनादिस्य स तथोक्तः। आकरोद्भवः खनिप्रभवः "खनिः खियामाकरः स्यात्" इत्यमरः । मपिरिव । अधिकं बभौ ! वसिष्ठमन्त्रप्रभावात्तेजिष्ठोऽमूदित्यर्थः। अत्र मनु:-“प्राङ्नाभिवर्धनात्पुंसो जातकर्म विधीयते" इति ॥ १८ ॥ अन्वयः-सः, दिलीपसूनुः तपस्विना, पुरोधसा, तपोवनात् , एस्य, अखिले, जातकर्मणि, कृते, "सति" प्रयुक्तसंस्कारः, आकरोड़वः मणिः इच, शधिकं बमौ। बाय-- तेन दिलीपसू नुना प्रयुक्तसंस्कारेण भाकरोदमन मप्पिनेव गमे। व्याख्या-सः= शिशुः, दिलीपस्य = राशः, सूनुः - पुत्र इति दिलीपस्नुः । तपोऽस्यास्तीति तपरवी, तेन तपस्विना = तपश्चरणवता, पुरः= अग्रे, धीयते, इति पुरोधाः, तेन पुरोधसा= पुरोहिरेन वसिष्टेन। तपसः= तपश्चर्यायाः, वनम् = अरण्यं, तस्मात् तपोवनात्,
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy