SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ तृतीयः सर्गः १५ जनाय शुद्धान्तचराय शंसते कुमारजन्मामृतसंमिताक्षरम् । अदेयमासीत्त्रयमेव भूपते: शशिप्रमं छत्रमुभे च चामरे ॥ १६ ॥ सब्जीविनी-भूपतेदिलीपस्यामृतसंमिताक्षरममृतसमानाक्षरम् । 'सरूपसमसंमितः' इत्याह दण्डी। कुमारजन्म पुत्रोत्पत्ति शंसते कथयते शुद्वान्तचरायान्तःपुर चारिणे जनाय त्रयमेवादेयमासीत् । किं तत् । शशिप्रसमुज्ज्वलं छत्रम् । उमे चामरे च, छत्रादीनां राज्ञः प्रधानाङ्गत्वाददेयत्वमिति भावः ।। १६ ॥ अन्वयः-भूपतेः, अमृतसमिताक्षरं, कुमारजन्म, शंसते, शुद्धान्तचराय, जनाय, त्रयम्, एव, अदेयम्, आसीत् , "तकि" शशिप्रम, छत्रम् ,उभे,चामरे च। वाच्य०-त्रयेण एव अदेयेन अभूयत शशिप्रमेण छत्रेण, उभाभ्यां चामराभ्याञ्च । व्याख्या-भुवः पृथिव्याः, पतिः=स्वामी, तस्य भूपतेः = दिलोपस्य । अमृतेन = पोयू. षेण, सम्मितानि = तुल्यानि, अक्षराणि = वर्णा यस्मिन् तत् ; अमृतसंमिताक्षरं । कुमारस्य = शिशोः, जन्म = उत्पत्तिः, तत् कुमारजन्म। शंसते कथयते । शुद्धान्ते = अन्तःपुरे, चरतिगच्छतीति शुद्धान्तचरस्तस्मै शुद्धान्तचराय, जनाय = लोकाय, सेवकायेत्यर्थः। त्रयं = त्रितयम् , एव न देयमिति अदेयं = दानायोग्यम् , आसोत् = बभूव । “तत् किम्" शशिनः = चन्द्रस्य, प्रमा इव प्रभा=कान्तिर्यस्य तत् शशिप्रभम् , छादयन्त्यनेनेति छत्र =श्वेतातपत्रम् । उमेद्वे, "शशिप्रमे" चामरे = बालव्यजने, च । समा०-शुद्धान्ते चरतीति शुद्धान्तचरः, तस्मै शुद्धान्तचराय । अमृतेन सम्मितानि अक्षराणि यस्मिन् तत् अमृतसम्मिताक्षरम्, तत् अमृतसम्मिताक्षरम् । कुमारस्य जन्म कुमारजन्म, तत् कुमारजन्म । शंसतीति शंसन् , तस्मै शंसते। दातु योग्यं देयम्, न देयम् अदेयम् । शशः अस्यास्तीति शशी, शशिनः प्रमेव प्रमा यस्य तत् शशिप्रभम् । अमि०-राजा दिलीपः पुत्रजन्मसमाचारश्राविणेऽन्तःपुरसंचारिणे हर्षातिरेकेप्य राजचिह्न छत्रं चामरे च परित्यज्यान्यत् सर्व वस्तुजातं दातुं सन्नद्धोऽभूत् । हिन्दी--अमृत के समान अक्षरवाले, पुत्रजन्म के समाचार को सुनाने वाले अन्तःपुर के सेवक को राजा दिलीप ने राजचिन्ह छत्र चामर को छोड़कर शेष सभी आभूषण दे डाले, क्योंकि राजा इतने प्रसन्न हुए कि वे उस समय सब कुछ दे देने को तैयार थे ॥ १६ ॥ निवातपद्मस्तिमितेन चक्षुषा नृपस्य कान्तं पिबत: सुताननम् । महोदधेः पूर इवेन्दुदर्शनाद् गुरुः प्रहर्षः प्रबभूव नात्मनि ॥ १७ ॥ सब्जीविनी--निवातो निर्वातप्रदेशः 'निवातावाश्रयावातौ' इत्यमरः। तत्र यत्पनं तद्स्तिमितेन निष्पन्देन चक्षुषा नेत्रेण कान्तं सुन्दरं सुताननं पुत्रमुखं पिबतस्तृष्णया पश्यतो नृपस्य गुरुरुत्कट: प्रहर्षः ( कर्ता ) इन्दुदर्शनाद् गुरुर्महोदधेः पूरो जलौव इव । आत्मनि शरीरे न प्रबभूव स्थातुं न शशाक । अन्तर्न माति स्मेति यावत् । न ह्यल्पाधारेऽधिक मीयत इति भावः । यद्वा हर्ष आत्मनि स्वस्मिन्विषये न प्रबभूव । आत्मान नियन्तुं न शशाक । किन्तु वहिनिर्जगामेत्यर्थः ॥ १७॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy