SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ ५६ रघुवंशमहाकाव्ये तस्या अन्ते प्रास्थानिकं प्रस्थानकाले मवम् । तत्कालोचितमित्यर्थः । “काला?" इति ठप्रत्ययः ( यथाकथंचिद् गुणवृत्त्यापि काले वर्तमानत्वात्प्रत्यय इष्यते ) इति वृत्तिकारः। ईयते प्राप्यतेऽनेनेट यनं स्वस्ति शुमस्यायनं स्वस्त्ययनं शुमावहमाशीर्वादं प्रयुज्य । तो दम्पती। कर्मभूतौ । स्वां राजधानी पुरी प्रति प्रस्थापयामास ॥ ७० ॥ अन्वयः-वशी, वसिष्ठः, प्रातः, यथोक्तवापारणान्ते, प्रास्थानिकं, स्वस्त्ययनं, प्रयुज्य, तौ, दम्पती स्वां, राजधानी, प्रति, प्रस्थापयामास । वाग्य०--वशिना वशिष्ठेन तो प्रस्थापयां चक्राते। व्याख्या--वशः इन्द्रियोपरि प्रभुत्वमस्यास्तीति वक्षी = जितेन्द्रियः, वसिष्ठः=ऋषिः, प्रात:प्रातःकाले, यथोक्त व्रतस्य = पूर्वोक्तस्य, गोसेवारूपस्य, अंगभूता या पारणा व्रतान्तभोजनम् , तस्या अन्तः = अवसानं तस्मिन् , यथोक्तव्रतपारणान्ते, प्रस्थाने भवं प्रास्थानिक प्रस्थानकालिकं, स्वस्त्ययनं = शुभावहमाशीर्वादं, प्रयुज्य = दत्ता, तो वोक्तौ, जाया च पतिश्च दम्पती= सुदक्षिणा दिलीपो, स्वां = स्वकीयां, रानधानीम् = अयोध्या प्रति = उद्दिश्य, प्रस्थापयामास = प्रेषयामास । समा०-वशः ( स्वाधीनता इन्द्रियाणां ) अस्यास्तीति वशी। उक्तम् अनतिक्रम्य यथोक्तम्यथोक्तञ्च तद् व्रतश्च यथोक्तवतम् , यथोक्तव्रतस्य पारणा यथोक्तव्रतपारया, यथोक्तव्रतपारणायाः अन्तः यथोक्तव्रतपारणान्तः, तस्मिन् यथोकवतपारणान्ते । प्रस्थाने भवं प्रास्थानिकं, तत् प्रास्थानिकम् । स्वस्ति ( अव्ययम् ) अयनम् स्सस्स्य्यनम् , तत् स्वस्त्ययनम् । धीयन्तेऽस्यामिति धानी, राशं धानी राजधानी, ता राजधानीम् । सा च स च तो, तो (द्वितीया )। जाया च पतिश्च दम्पती, तौ दम्पती। अमि०--महर्षिवसिष्ठः प्रात:काले यात्राकालिकं शुभाशीर्वादं दत्त्वा, सुदक्षिणादिलीपो, अयोध्याम्प्रति प्रस्थापयामास । हिन्दी-प्रातःकाल जितेन्द्रिय वशिष्ठ जो ने गोसेवारूप व्रत के सांगोपांग पूर्ण होने पर सुदक्षिषा एवं दिलीप को यात्रा के समय शुभ शीर्वाद देकर अयोध्या की ओर बिदा किया ॥ ७० ॥ प्रदक्षिणीकृत्य हुतं हुताशमनन्तरं भर्तुररुन्धतीं च । धेनुं सवत्सां च नृपः प्रतस्थे सन्मङ्गलोदग्रतरप्रमावः ॥ ७१ ॥ सञ्जीविनी-नृो हुतं तपितम् । हुनमश्नातीति हुताशोऽग्निः । “कर्मण्यण" तं भर्तुर्मुनेर. मित्यर्थः। प्रदक्षिणानन्तरमित्यर्थः । अरुन्धती च सवरसां धेनुं च प्रदक्षिणीकृत्यः। प्रगतो दक्षिणं प्रदक्षिणम्। "तिष्ठद्गुप्रभृतीनि च" इत्यव्ययोमावः । ततश्विः । अप्रदक्षिणं प्रदक्षिणं संपद्यमानं कृत्वा प्रदक्षिणी कृत्य। सद्भिर्मालेः प्रदक्षिणादिमिर्मङ्गलाचाररुदनतरप्रभा वः सन् प्रतस्थे ॥ ३१॥ अन्वयः-नृपः, हुतं, हुताशं. भर्तुः, अनन्तरम् , अरुन्धती, च, सवरसां धेनुं च, प्रदक्षिणीकृत्य, सन्मङ्गलादग्रतरप्रभावः “सन" प्रतस्थे । __ वाच्य-नृपेण सन्मंगलोदग्रतरप्रमावेण "सता" प्रतस्थे । व्याख्या-नृपः = राजा, दिलीपः, हुतं = तर्षि दत्तहविषमित्यर्थः, हुतमश्नातीति हुताशस्तं हुताशं = वहिं, मतुः= स्वामिनो वशिष्ठस्य, अनन्तरं = पश्चात् , अरुन्धती = वशिष्ठपत्नी, च,सवत्सां=
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy