SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः शकरकरिसहिता, घेर्नु = गाश्च, प्रदक्षिणीकृत्य = परिक्रम्य, सन्मंगलैः= शुमाचारैः, उग्रतरः = उन्नततरः, प्रमावः = प्रतापो यस्य स तथोक्तः सन् , प्रतस्थे-प्रचचाल । समा०-हुतम् अश्नातीति हुताशा, तं हुताशम् । न विद्यते अन्तरं यस्य तत् अनन्तरम् , तत् अनन्तरम् । वत्सेन सह वर्तते इति सवत्सा, तां सवत्साम् । प्रगतो दक्षिणं प्रदक्षिणम् , अप्रदक्षिणं प्रदक्षिणं सम्पद्यमानं कृत्वा प्रदक्षिणीकृत्य । सन्ति च तानि मङ्गलानि च सन्मङ्गलानि, अतिशयेन उदग्रः उदग्रतरः, सन्मङ्गलैरुदग्रतरः प्रभावः यस्य सः सन्मङ्गलोदग्रतरप्रभावः । अमि०-राजा दिलीपः, हुताग्निं सपत्नीकं वशिष्ठं तथा सवत्सां गाञ्च प्रदझियोकृत्य, सद्भिः मंगलाचारैः विवृद्धतेजाः सन् , अयोध्याय प्रतस्थे । हिन्दी-राजा हवनकुण्ड की इसके बाद वशिष्ठ एवं अरुन्धती और बछड़े महित बैठी हुई धेनु की परिक्रमा करके, वशिष्ठ के शुभाशीर्वादों से अधिक तेजस्वी होकर राजधानी की ओर चल पड़े ॥७९॥ श्रोत्राभिरामध्वनिना रथेन स धर्मपत्नीसहितः सहिष्णुः।। ययावनुद्घातसुखेन मार्ग - स्वेनेव पूर्णन मनोरथेन ॥ ७२ ॥ सम्जीविनी-धर्मपत्नीसहितः सहिष्णुर्वतादिदुःखसहनशीलः स नृपः श्रोत्राभिरामध्वनिना कर्णाह्लादकरस्वनेनानुरातः पाषाणादिप्रतिवातरहितः अतएव सुखयतीति सुखः । तेन रथेन । स्वेन पूर्णेन सफलेन मनोरथेनेव । भार्गमध्वानं ययौ। मनोरथपक्षे ध्वनिः श्रुतिः। अनुद्वातः प्रतिबन्ध निवृत्तिः ।। ७२ ॥ __अन्वयः-धर्मपत्नीप्तहितः सहिष्णुः, सः, श्रोत्राभिरामध्वनिना, अनुद्घातमुखेन, रथेन, स्वेन, पूर्णन, मनोरथेन, इव, मार्ग, ययौ।। पाच्य०-धर्मपत्नीसहितेन सहिष्णुना तेन मागों यये । __ व्याख्या-धर्मपत्नीसहित:= सुदक्षिणासहितः, सहिष्णुः=सहनशीलः, सः राजा दिलीपः, श्रोत्रयोः= कर्णयोः, अभिरामः- सुखपदः, धनिः= शब्दः, यस्य स तेन श्रोत्राभिरामध्वनिना । न, उद्घातोऽनुद्घातस्तेन, अनुदातेन=पाषाणादिरहितेन, सुखः-सुखकरस्तेनानुद्वातसुखेन, रथेन= स्यन्दनेन, स्वेन = आत्मीयेन, पूणेन=सफलेन, मनोरथेन = अभिलाषेण, इव = यथा, ययौ=जगाम । मनोरथपक्षे ध्वनिः श्रुतिः, मनोरथसिद्धिश्रवप्पमित्यर्थः, अनुरातः = प्रतिबन्धाभावः, विघ्नराहित्यम् । समा०--धर्मपत्न्या सहितः धर्मपत्नीसहितः। श्रोत्रयोः अभिरामः घनिः यस्य स श्रोत्राभिरामध्वनिः, तेन प्रोत्राभिरामध्वनिना । न उद्घात: अनुरातः, अनुदातेन सुखयतीति अनुद्घातसुखः, तेन अनुद्घातसुखेन । मनः रथः इव मनोरथः, तेन मनोरथेन । भमि०-सुदक्षियासहितो दिलोपः सुखपदेन रथेन स्वकीयसफल मनोरथेनेव ययौ । हिन्दी-सहनशील राजा दिलीप अपनी पत्नी के साथ जिस रथ में बैठ कर अयोध्या को चले. उसकी ध्वनि कानों को बड़ी हो मीठी लग रही थी, उसमें जरा भी हिचक नहीं लगती थी, अतः उसपर सुख से चढ़कर जाते समय, ऐसा लग रहा था, मानो वे अपने सफल सुखद मनोरथ पर बैठकर जा रहे हों। रयपर बैठकर नहीं ।। ७२ ।।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy