SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः समा०-आभाषणं पूर्व यस्य सः आमाषणपूर्वः, तम् आमाषणपूर्वम् । वनस्य अन्तः वनान्तः, तस्मिन् वनान्ते । भूतानां नाथः भूतनाथः, अनुगच्छतीति अनुगः, भूतनाथस्य अनुगः भूतनाथानुगः, तत्संबुद्धौ भूतनाथानुग ! सम्बन्धः अस्यास्तीति सम्बन्धी, तस्य सम्बन्धिनः । . अभि०-परस्परालापजनितं हि सख्यं भवति । तत्सख्यं वनमध्य मिलितयोः भावयोर्जातम् , अतएव हे शिवानुचर ! मित्रस्य मे प्रार्थनां विफलीकर्तु भवान् न योग्योऽस्तीति । ___हिन्दी-आपस में वार्तालाप से मित्रता होती है ऐसा कहते हैं । वह मैत्री वन में बातचीत से हम दोनों की हो गई, इसलिये, शिवानुचर ! मित्र होकर मेरी प्रार्थना को ठुकराना तुम्हें उचित नहीं।५८॥ तथेति गामुक्तवते दिलीपः सधः प्रतिष्टम्भविमुक्तबाहुः । स न्यस्तशस्त्रो हरये स्वदेहमुपानयत्पिण्डमिवामिषस्य ।। ५९ ।। सजीविनी-तथेति एतमस्वति गां वाचमुक्तवते हरये सिंहाय । 'कपौ सिंहे सुवणे च वर्षे विष्यौ हरि विदुः' इति शाश्वतः । सद्यस्तत्क्षणे प्रतिष्टम्भात्प्रतिबन्धाद्विमुक्तो बाहुर्यस्य स दिलोपः। न्यस्तशस्त्रस्त्यक्तायुधः सन् । स्वदेहम् । आमिषस्य मांसस्य । 'पललं कन्यमामिषम्' इत्यमरः . पिण्डं कवलमिव । उपानयरसमर्पितवान् । एतेन निर्ममत्वमुक्तम् ।। ५६ ।।। अन्वयः--तथा, इति,गाम् , उक्तवते, हरये, सद्यः, प्रतिष्टम्भविमुक्तवाहुः, सः, न्यस्तशस्त्र:, "सन्" स्वदहम् , आमिषस्य. विण्डम् , इव, उपानयत् । वाच्य--प्रतिष्टम्मविमुक्तबाहुना तेन न्यस्तशस्त्रण स्वदेहः पिण्ड इव, उपानीयत । व्याख्या--तथा-तेन प्रकारेण यथा भवान् कथयति तथैव करिष्यामीति भावः। इति = एवंरूपा, गां% गिरम् , उक्तवते = कथितवते, हरये =सिंहाय, सद्यः-तत्क्षण, प्रतिष्टम्भात्=प्रतिबन्धात् विमुक्तः = त्यक्तः, बाहुः= भुजा यस्य स तथोक्तः, सः राजा दिलोपः, न्यस्तं त्यक्तं, शस्त्रम् = आयुधं येन, स न्यस्तशस्त्रः, “सन्" स्वदेहं = स्वशरीरम् , आमिषस्य = मांसस्य, पिण्डं = प्रासम् , इवयथा, उपानयत = उपाहरत् समर्पितवान् । अमि०-यथा भवान् कथयति तथैव भवतु, इति कथयित्वा दिलीपस्य प्रार्थना स्वीकुर्वते सिंहाय, प्रतिदन्यात् मुक्तबाहुः त्यक्तायुधा दिलोपः स्वशरीरं मांसपिण्डमिव समर्पितवान् । हिन्दी-'तथास्तु' ऐसा कहनेवाले सिंहके लिये, तुरन्त बन्धन से मुक्त हो गई है वाहु जिसकी भोर गिरा दिया है अस्त्र जिसने, ऐसे राजा दिलीप ने अपना शरीर, मांस के टुकड़े के समान समर्पण कर दिया ॥ ५९ ॥ तस्मिन्क्षणे पालयितुः प्रजानामुत्पश्यत: सिंहनिपातमुग्रम् । __ अवाङमुखस्योपरि पुष्पवृष्टिः पपात विद्याधरहस्तमुक्ता ॥ ६॥ सञ्जीविनी-तस्मिन् क्षण उग्रं सिंहनिपातमुत्पश्यत उत्प्रेक्षमाणस्य तर्कयतोऽवाड्मुखस्याधोमुखस्य। 'स्यादवाङप्यधोमुखः' इत्यमरः। प्रजानां पालयितू राश उपर्युपरिष्टात् । “उपर्युपरिष्टात्' इति निपातः। विद्याधराणां देवयोनिविशेषाणां हस्तैमुक्ता पुष्पवृष्टिः पपात ॥ ६०॥ अन्वयः-तस्मिन् , क्षणे, उग्रं, सिंहनिपातम् , उत्पश्यतः, अवाङ्मखस्य, प्रजाना, पालयितुः, उपरि, विद्याधरहस्तमुक्ता, पुष्पवृष्टिः, पपात ।
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy