SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ रघुवंशमहाकाव्ये बाच्य०-विद्याधर हस्तमुक्तया पुष्पवृष्टया पेते । व्याख्या--तस्मिन् = पूर्वोक्त, मणे = मुहूते, हरये स्वदेहार्पणकाले इत्यर्थः, उग्रं उत्कटं, मयंकर, सिंहस्य = केसरिणः, निपातः = निपतनम् तं सिंहनिपातम् , उत्पश्यतः - उत्प्रेक्षमाप्पस्य, तर्कयतः, अवाड्= अधः, मुखम् = आननं यस्य स तस्यावाङ्मुखस्य, प्रजानां जनानां, पालयितुः= रक्षितुर्दिली. पस्य, उपरि = उपरिष्टात्, विद्याधराणां देवयोनिविशेषायां, हस्ताः= कराः, तैर्मुक्ता = पतिता, पुष्पाषां = कुसुमानां, वृष्टिः = वर्षणं, पपात = अपतत् । समा०-सिंहस्य निपातः सिंहनिपातः, तं सिंहनिपातम् । अवाक् मुखं यस्य सः अवामुखः, तस्य अवामुखस्य । पुष्पाणां वृष्टिः पुष्पवृष्टिः । विद्याधराणां हस्ताः विद्याधरहस्ताः, विद्याधरहस्तैः मुला विद्याधरहस्तमुक्ता। अमि०--तस्मिन् क्षणे मयंकर सिंहपतनं तर्कयतोऽधोमुखस्य राश उपरि विद्याधराणां हस्तैः मुला पुष्पवृष्टिः पतिता। हिन्दी--उस समय नीचा मुख करके राजा दिलोप यह सोच ही रहे थे कि सिंह मेरे ऊपर सपटने ही वाला है इतने में ही उनपर आकाश से विद्याधरों ने पुष्पवृष्टि की झड़ी लगा दो ॥ ६०॥ उत्तिष्ठ वत्सेत्यमृतायमानं वचो निशम्योत्थितमुस्थितः सन् । ददर्श राजा जननीमिव स्वां गामग्रतः प्रस्त्रविणीं न सिंहम् ॥ ६१ ॥ सञ्जीविनी--राजा अमृतमिवाचरतीत्यमृतायमानं तत् । “उपमानादाचारे" इति क्यच । ततः शानच् । उस्थितमुत्पन्नम् । हे वत्स ! उत्तिष्ठ इति वचो निशम्य अत्वा । उत्थितः सन् । अस्तेः शतप्रत्ययः । अग्रतोऽग्रे प्रस्रवः क्षीरस्रावोऽस्ति यस्याः सा प्रस्त्रविणो तां प्रसविणीं गां स्वां जननीमिव ददर्श। सिंहं न ददश ॥ ६१ ॥ अन्धयः--राजा, अमृतायमानम् , उत्थितं, हे वत्स ! उत्तिष्ठ, इति वचः, निशम्य उत्थितः, सन्, अग्रतः प्रस्रविणी, गां, वां, जननीम् , इव, ददर्श, सिंह, न, ददर्श । वाच्य०--राशा, उस्थितेन सता प्रस्रविणो गौः स्वा जननी इव ददृशे, सिंहो न ददृशे । व्याख्या--राजा= दिलीपः, अमृतमिवाचरतीत्यमृतायमानं तत् , अमृतायमानम् = पीयूषायमाणम्, 'पीयूषममृतं सुधा' इत्यमरः । उस्थितम् = उत्पन्नम् , हे वत्स = हे पुत्र !, उत्तिष्ठ = उत्थितो मव, इति = इत्येवं, वचः= वचनं, निशम्य = श्रुत्वा, उत्थितः= ऊर्ध्वमवस्थानं कृतवान् सन् , अग्रतः = अग्रे, प्रस्रवः = क्षीरसावः, अस्ति, अस्याः सा तां प्रस्रविणों, गां = नन्दिनी, स्वाम् = आत्मीयां, जननी - मातरम् , इव= यथा, ददर्श = अपश्यत् , सिंह = केसरिणं, न = नहि "ददर्श"। समा०--अमृतमिव आचरतीत्यमृतायमानं, तत् अमृतायमानम् । प्रसवः अस्या अस्तीति प्राविणी तां प्रस्रविणीम् । जनयतीति जननी, तां जननीम् । भमि.--हे पुत्र ! उत्तिष्ठ इत्यमृतसमानं धेनुवाक्यं श्रुत्वा, यावहिलोप उत्थितः सन् पश्यति, वावदने वर्तमानां क्षीरस्राववती स्वकीयां मातरमिव नन्दिनीमेवावलोकितवान् न तु केसरिप्पमिति । हिन्दी-राजा दिलीप अमृत के तुल्य, नन्दिनी के मुख से निकले 'हे पुत्र उठो' यह सुनकर ज्यों ही उठा तो सामने स्तनों से दूध बहाती हुई माता के समान नन्दिनी ही दिखाई दी, सिंह नहीं ॥३१॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy