SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ द्वितीयः सर्गः समा०-कल्याणानां परम्पराः कल्याणपरम्पराः, तासां कल्याणपरम्पराणाम् । ऊर्जः अस्यास्तोति ऊर्जस्वलः, तम् ऊर्जस्वलम् । आत्मनः देहः आत्मदेहः, तम् आत्मदेहम् । मह्याः तलं महीतलम् , महीतलस्य स्पर्शनं महीतलस्पर्शनं, केवलं महीतलस्पर्शनं महीतलस्पर्शनमात्रम् , महीतलस्पर्शनमात्रेष मिन्नं महीतलस्पर्शनमात्रभिन्नम् , तत् महीतलस्पर्शनमात्रमिन्नम् । राज्ञः कर्म भावो वा राज्यम् , वत् राज्यम् । इन्द्रस्य इदम् ऐन्द्रम् , तत् ऐन्द्रम् । अमि०-हे राजन् त्वमुत्तरोत्तरं शुमानां सुखानां भोक्तारं स्वदेहं पालय, यतः पृधिवोतलस्पर्शमात्रेण स्वर्गाद पृथग्भूतं समृद्ध राज्यमेव इन्द्रराज्यं कथयन्ति विद्वांसः ॥ ५० ॥ हिन्दी-हे रानन् , इसलिये तुम उत्तरोत्तर परम सुखों का भोग करने वाले अपने शरीर की रक्षा करो, क्योंकि विद्वान् लोग समृद्धिशाली ( तुम्हारे जैसे.) राज्य को ही इन्द्र का पद ( स्वर्ग) कहते हैं, अन्तर केवल इतना ही है कि इन्द्रपद में भूतल का स्पर्श नहीं होता ॥ ५० ॥ एतावदुक्त्वा विरते मृगेन्द्र प्रतिस्वनेनास्य गुहागतेन । शिलोच्चयोऽपि क्षितिपालमुच्चैः प्रीत्या तमेवार्थमभाषतेव ॥ ५१ ॥ सम्जीविनी-मृगेन्द्र एतावदुक्त्वा विरते सति गुहागतेनास्य सिंहस्य प्रतिस्वनेन शिलोच्चयः शैकोऽपि प्रोत्या तमेवार्थ क्षितिपालमच्चैरभाषतेन । इत्युत्प्रेक्षा । माषिरयं ब्रबिसमानार्थत्वाद् द्विकर्मकः विस्तु द्विकर्मकेषु पठितः । तदुक्तम्-"दुहियाचिरुधिच्छिमिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । अविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥” इति ॥ ५१ ॥ अन्धयः-मृगेन्द्रे एतावत् , उक्त्वा, विरते, "सति" गुहागतेन, अस्य, प्रतिस्वनेन शिलोच्चयः अपि, प्रोत्या, तम् . एव, अर्थ, क्षितिपालम् , उच्चैः, अभाषत इव । वाच्य-शिलोच्चयेनापि प्रीत्या स एवार्थः क्षितिपालमुच्चैरमाध्यत, इव । व्याख्या-मृगेन्द्रे = सिंहे, एतत्परिमाणमस्येति, एतावत् = इत्येतत् , उक्त्वा कथयित्वा, विरते =तूष्णींमूते, "सति" गुहां= गहरं, गतः प्राप्तस्तेन, गुहागतेन, अस्य = सिंहस्य, प्रतिस्वनेनप्रतिशब्देन, शिलोच्चयः = हिमालयः, अपि प्रीत्या - हर्षेण, प्रेम्णा, तं=सिंहोक्तम् , एव, अर्थम् - अभिधेयम् , यस्मिन् सः क्षितिं पालयतीति क्षितिपालस्तं क्षितिपालं = भूपालम् , उच्चैः= तारस्वरेप, प्रमाषत =प्रकथयत् , श्वेत्युत्प्रेशा।। समा०-एतत् परिमाणमस्येति एतावत् , तत् एतावद। मृगाणाम् इन्द्रः मृगेन्द्रः, तस्मिन् मृगेन्द्रे । गुहायां आगतः, गुहागतः, तेन गुहागतेन । शिलानाम् उच्चयः शिवोच्चयः। क्षितिं पालयतीति क्षितिपालः, तं क्षितिपालम् । पर्यते (शायदे ) इत्यर्थः, तम् अर्थम् । अमि०-सिंहे एतावदुक्त्वा तूष्पीभूते सति, स्वगुहागतपतिशब्देन हिमाचकोऽपि सहवासकृतप्रेम्या तमेवार्थ राजानमुच्चैरमापतेव । हिन्दी-इतना कहकर सिंह के मौन होने पर, गुहा में गये हुए इसके प्रतिशब्द के द्वारा हिमाचल भी प्रेम से मानो उसी बात को राजा से जोर से कहने लगा अर्थात् गुफा में गूंजे हुए शब्दों को प्रतिध्वनि से मालूम होता था पर्वत मी सिंह की बात का समर्थन कर रहा है ॥५१॥
SR No.032598
Book TitleRaghuvansh Mahakavya
Original Sutra AuthorN/A
AuthorKalidas Makavi, Mallinath, Dharadatta Acharya, Janardan Pandey
PublisherMotilal Banarsidass
Publication Year1987
Total Pages1412
LanguageSanskrit
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy